फलानि च सुवर्णानि देयानि च विशेषतः
कृष्णपक्षे चतुर्दश्यां स्नानं बहुफलप्रदम्
माघे कृष्णचतुर्दश्यां यात्रा सांवत्सरी भवेत्
आब्रह्मस्तम्बपर्यंतं जगत्तृप्यत्विति ब्रुवन्
एवं कुर्वन्नरो यक्ष न मुह्यति कदाचन 2.8.7.
अत्र स्नातेन ते यक्ष कर्त्तव्यं पूजनं पुरः
नमः प्रमथराजेति पूजामन्त्र उदाहृतः
निधिलक्ष्म्यो तथा यक्ष तव पूजा विशेषतः
धनार्थी धनमाप्नोति पुत्रार्थी पुत्रमाप्नुयात्
यस्तु मोहान्नरो यक्ष स्नानं न कुरुते किल
इति दत्त्वा वरांस्तस्मै विश्वामित्रो मुनीश्वरः
तदाप्रभृति तत्स्थानं परमां ख्यातिमाययौ
दिव्यरत्नौघखचिता समंतादुपशोभिता
धनयक्षादुत्तरस्मिन्दिग्भागे संस्थितं द्विज
वसिष्ठस्य सदा तत्र निवासः सुतपोनिधेः 2.8.7.
अत्र स्नानं विशेषेण श्राद्धपूर्वमतंद्रितः
वामदेवस्य तत्रैव संनिधिर्वर्ततेऽनघ
पतिव्रता पूजनीयाऽरुन्धती च विशेषतः
सर्वकामफलप्राप्तिर्जायते नात्र संशयः
भाद्रे मासि सिते पक्षे पंचम्यां नियतव्रतः
विष्णुपूजा प्रयत्नेन कर्तव्या श्रद्धयात्र वै
वसिष्ठकुण्डाद्विप्रेंद्र प्रत्यग्दिग्दलमाश्रितम् यत्र स्नानेन दानेन सर्वकामानवाप्नुयात्
पौर्णमास्यां समुद्रस्य स्नानाद्यत्पुण्यमाप्नुयात्
तस्मादत्र विधानेन स्नातव्यं पुत्रकांक्षया
एवं कुर्वन्नरो विद्वान्सर्वपापैः प्रमुच्यते 2.8.7.
सागरान्नैर्ऋते भागे योगिनीकुण्डमुत्तमम्
सर्वार्थसिद्धिदाः पुंसां स्त्रीणां चैव विशेषतः
आश्विने शुक्लपक्षस्य अष्टम्यां च विशेषतः
अत्र स्नानं तथा दानं सर्वं सफलतां व्रजेत्
योगिनीकुंडतः पूर्वमुर्वशीकुण्डमुत्तमम्