ब्रह्मणा प्रीतियुक्तेन दक्षाय प्रतिपादिते
सुराणामसुराणां च विग्रहे समुपस्थिते
तपश्चचार दुर्धर्षमेकपादः शतक्रतुः
दृष्ट्वा तु देवराजं तं बृहस्पतिरुवाच ह
एकाकिना वनस्थेन न साध्याः शत्रवस्त्वया
पूजार्थे ब्रह्मणा दत्ते पारिजातसमुद्भवे
शत्रूणां च क्षयो भावी प्रसादादर्चयो स्तयोः
जगाम सत्वरस्तत्र यत्र दक्षः प्रजापतिः १९ पूजिते प्रतिमे व्यास शक्रेण शरदां शतम् 5.1.32.
भक्त्यानया परं तुष्टावावां जानीहि वासव
वरं वव्रे तदा शक्रः प्रसन्नात्मा द्विजोत्म
सर्वे ते नाशमृच्छंतु वर एष मतो मम
तथेति चोक्त्वा प्रतिमे ते नाकं प्रति जग्मतुः
इमे च प्रतिमे पार्थ शंकरेण महात्मना
सुरक्तैः शतपत्रैश्च पूजिते ब्रह्मणो दिनम्
नीलोत्पलैः सुगंधैश्च सहस्रपरिवत्सरान्
पूजयामास प्रतिमे पद्मै रक्तोत्पलैः शुभैः
एताभ्यां रहितः स्वर्गो मृत्युतुल्यो भविष्यति
उवाच नाहमर्थ्यस्मिन्वरेणानेन वै प्रभो 5.1.32.
गृहीत्वा त्वमिमे वीर कुशस्थल्यां निवेशय
प्रति तिष्ठति वै यत्र सर्वपापप्रणाशनः भविष्यति तदा यात्रा आषाढी चाथ कौमुदी
आगमिष्याम्यहं तत्र सहितोऽप्सरसां गणैः
मेघखण्डे समुद्भूते मयि तत्र प्रवर्षति
भास्करं च नमस्कृत्य ब्रह्माद्यैः पूजितं विभुम्
एवं मृर्तिद्वयं व्यास दत्त्वा पार्थाय वासवः
नारदो द्वारकायां तु कृष्णस्याह्वानकारणात्
श्रावयामास विप्रेंद्रं एहि कृष्ण कुशस्थलीम्
इंद्रेणाथ प्रदत्ते वै ते तुभ्यं पांडवाय च
अवातरच्च आकाशात्तमालिंग्य च पांडवम् 5.1.32.
जन्म मे सफलं जातं प्रीतिर्मे जनितार्जुन
इत्युक्त्वा तौ तदा व्यास समायातौ कुशस्थलीम्