स्थापनां ते प्रवक्ष्यामि नरादित्यस्य यादृशी
नरनारायणौ देवाववतीर्णौ धरातले
एवं तौ वर्तितौ लोके कांतौ वृद्धिं परां गतौ
कंसादीन्दानवान्सर्वान्निजघान रणे हि सः
कृतास्त्रेण तु वीरेण देवराजस्य दक्षिणा
निवातकवचा ह्युग्रा हिरण्यपुरवासिनः
अर्जुनेन प्रतिज्ञातो वधस्तेषां दुरात्मनाम्
निहत्य तांस्ततः पार्थः कृत्वा कर्म सुदुष्करम्
कृतकार्यं तदा शक्रस्त्वर्जुनं वाक्यमब्रवीत् 5.1.32.
मनसा कांक्षितं पार्थ वरं त्वं वरयोत्तमम्
ब्रह्मणा प्रीतियुक्तेन दक्षाय प्रतिपादिते
सुराणामसुराणां च विग्रहे समुपस्थिते
तपश्चचार दुर्धर्षमेकपादः शतक्रतुः
दृष्ट्वा तु देवराजं तं बृहस्पतिरुवाच ह
एकाकिना वनस्थेन न साध्याः शत्रवस्त्वया
पूजार्थे ब्रह्मणा दत्ते पारिजातसमुद्भवे
शत्रूणां च क्षयो भावी प्रसादादर्चयो स्तयोः
जगाम सत्वरस्तत्र यत्र दक्षः प्रजापतिः १९ पूजिते प्रतिमे व्यास शक्रेण शरदां शतम् 5.1.32.
भक्त्यानया परं तुष्टावावां जानीहि वासव
वरं वव्रे तदा शक्रः प्रसन्नात्मा द्विजोत्म
सर्वे ते नाशमृच्छंतु वर एष मतो मम
तथेति चोक्त्वा प्रतिमे ते नाकं प्रति जग्मतुः
इमे च प्रतिमे पार्थ शंकरेण महात्मना
सुरक्तैः शतपत्रैश्च पूजिते ब्रह्मणो दिनम्
नीलोत्पलैः सुगंधैश्च सहस्रपरिवत्सरान्
पूजयामास प्रतिमे पद्मै रक्तोत्पलैः शुभैः
एताभ्यां रहितः स्वर्गो मृत्युतुल्यो भविष्यति
उवाच नाहमर्थ्यस्मिन्वरेणानेन वै प्रभो 5.1.32.
गृहीत्वा त्वमिमे वीर कुशस्थल्यां निवेशय
प्रति तिष्ठति वै यत्र सर्वपापप्रणाशनः भविष्यति तदा यात्रा आषाढी चाथ कौमुदी