तत्र स्थित्वा महेशेन पुनः पत्तनमीक्षितम्
पत्तनेश्वर इत्याख्यो देवदेवो महेश्वरः
भावयुक्तो नरो व्यास पूजयेद्विधिवत्सदा
हंसयुक्तेन यानेन शिवलोकं स गच्छति
दुर्धर्षमिति विख्यातं ब्रह्महत्याविमोचनम्
तीर्थमासीन्नदीतीरे विख्यातं सूर्यसंस्कृतम्
सप्तम्यामथवाष्टम्यां संक्रातौ रविवासरे
दृष्ट्वा महेश्वरं तत्र शिप्राकूले व्यवस्थितम्
पितृमातृकुलं सर्वं समुद्धृत्य शिवं व्रजेत् 5.1.31.
तावत्तदक्षयं लोके यावच्चंद्रदिवाकरौ
गौतमेन पुरा यत्र इन्द्रः शापाद्भ गीकृतः
अतोषयत्तदोग्रेण तपसा शंकरं पुरा
गोसहस्रीकृतास्तेन गोपींद्रस्तेन कथ्यते
ये मृतास्ते पुनर्जन्म नाप्नुवंति महीतले
ज्येष्ठशुक्लदशम्यां तु गंगायां फलमादिशेत्
पुष्पकेन विमानेन प्रयातो दिवि मोदते
इष्टभोगसमापन्नो याति स्वर्गं न संशयः
गंधपुष्पादिनैवेद्यैर्मृतो रुद्रपुरं व्रजेत्
अंबालिकां च यः पश्येत्समाधिनियमेन च ।। 5.1.31.
स मुक्तः सर्वपापेभ्यः कंचुकेन फणी यथा
यत्र कूपोदकं पीत्वा सौभाग्यमतुलं लभेत्
शिवलोके वसेत्तावद्यावदिंद्राश्चतुर्दश
स गाणपत्यमाप्नोति यत्सुरैरपि दुर्लभम्
न याति नरकं मर्त्यः स्वर्गलोके महीयते
पूजितं ब्रह्मणा पूर्वं स्थविराख्यं विनायकम्
गंधैर्धूपैश्च नैवेद्यैर्भक्ष्यैर्भोज्यैः फलं शृणु
नवनद्याः समीपे तु पार्वतीं पूजयेद्बुधः
कामोदके नरः स्नात्वा दृष्ट्वा कामं रतिप्रियम्
प्रयागे तु नरः स्नात्वा प्रयागेशं तु पश्यति 5.1.31.
यस्य दर्शनमात्रेण सर्वरोगैर्विमुच्यते