यदुक्तं लक्ष्मणेनाथ तच्च सीता चकार ह
नीत्वा विभावरीं तत्र गमनाय मनो दधे
सौमित्रिरब्रवीद्वाक्यं नाहं गन्ता कथंचन
नाहमग्रे वनं यामि न वायोध्यां कथं चन
कथं पूर्वमूयोध्याया निर्गतोऽसि मया सह
प्रमादः क्रियतां मह्यं नय मामपि राघव
लक्ष्मणस्त्वब्रवीद्राम नाहं गन्ता वनं पुनः
मा माऽनुव्रज सौमित्रे ह्येको यास्यामि काननम्
धनुः संगृह्य विमना उत्तस्थौ लक्ष्मणस्तदा 5.1.31.
निवर्तयस्व सौमित्रे समर्पय च मे धनुः
किमर्थं हि परित्यक्तः कोऽपराधः कृतो मया
रामं ततोऽब्रवीत्सीता किमर्थं लक्ष्मणस्त्वया
राघवस्त्वब्रवीत्सीतां नाहं त्यक्ष्यामि लक्ष्मणम्
श्रुतपूर्वं तु सुश्रोणि क्षेत्रस्यास्य विचेष्टितम्
परस्परं न मन्यंते स्वार्थनिष्ठैकहेतवः
न च शिष्यो गुरोर्वाक्यं गुरुर्वा शिष्यकर्म च
एवमुक्त्वा ययौ रामो लक्ष्मणो जानकी तथा
रामतीर्थे नरः स्नात्वा दृष्ट्वा रामेश्वरं शिवम्
सर्वपापविनिर्मुक्तः सौभाग्यं परमं लभेत् ।। 5.1.31.
घृततीर्थे नरः स्नात्वा घृतेन स्नापयेच्छिवम्
देवीं योगीश्वरीं पूज्य सुरासुरनमस्कृताम्
शंखावर्ते नरः स्नात्वा सर्वपापविवर्जितः
सुधोदके चतुर्दश्यां मुक्त्यर्थं स्नापयेन्नरः
तथान्य त्संप्रवक्ष्यामि तीर्थं त्रैलोक्यविश्रुतम्
पूर्वं त्रेतायुगे व्यास सुनेत्रो नाम वै द्विजः
यवक्रीतस्य शापेन स्वपिता तेन घातितः
तीर्थे किंपुनके स्नात्वा धारातीर्थे गतो द्विजः
कथं मे पतिता धारा अनृता वा श्रुतिस्तथा
अत्र तीर्थे पुनः स्नाति यावद्वाणीं ततोऽशृणोत् 5.1.31.
न तेऽस्ति ब्रह्महत्या वै तीर्थस्नानेन नाशिता