यक्षं प्रति प्रसन्नात्मा ह्युवाच श्लक्ष्णया गिरा
धनयक्ष इति ख्यातिमेतत्तीर्थं गमिष्यति
सौंदर्य्यदं शरीरस्य परं प्रत्ययकारकम् तत्र स्नानं प्रयत्नेन कर्त्तव्यं पुण्यकांक्षिभिः
दानं श्रद्धास्वशक्तिभ्यां लक्ष्मीपूजा विशेषतः
पूजया तु निधीनां च नवानामपि सुव्रत 2.8.7.
महापद्मस्तथा पद्मः शंखो मकरकच्छपौ
एतेषामपि कुण्डेऽत्र संनिधिर्भविताऽनघ
जलमध्ये प्रकर्त्तव्यं निधिलक्ष्मीप्रपूजनम्
अन्नं बहुविधं देयं वासांसि विविधानि च
सुवर्णादि यथाशक्त्या वित्तशाठ्यं विवर्जयेत्
फलानि च सुवर्णानि देयानि च विशेषतः
कृष्णपक्षे चतुर्दश्यां स्नानं बहुफलप्रदम्
माघे कृष्णचतुर्दश्यां यात्रा सांवत्सरी भवेत्
आब्रह्मस्तम्बपर्यंतं जगत्तृप्यत्विति ब्रुवन्
एवं कुर्वन्नरो यक्ष न मुह्यति कदाचन 2.8.7.
अत्र स्नातेन ते यक्ष कर्त्तव्यं पूजनं पुरः
नमः प्रमथराजेति पूजामन्त्र उदाहृतः
निधिलक्ष्म्यो तथा यक्ष तव पूजा विशेषतः
धनार्थी धनमाप्नोति पुत्रार्थी पुत्रमाप्नुयात्
यस्तु मोहान्नरो यक्ष स्नानं न कुरुते किल
इति दत्त्वा वरांस्तस्मै विश्वामित्रो मुनीश्वरः
तदाप्रभृति तत्स्थानं परमां ख्यातिमाययौ
दिव्यरत्नौघखचिता समंतादुपशोभिता
धनयक्षादुत्तरस्मिन्दिग्भागे संस्थितं द्विज
वसिष्ठस्य सदा तत्र निवासः सुतपोनिधेः 2.8.7.
अत्र स्नानं विशेषेण श्राद्धपूर्वमतंद्रितः
वामदेवस्य तत्रैव संनिधिर्वर्ततेऽनघ
पतिव्रता पूजनीयाऽरुन्धती च विशेषतः
सर्वकामफलप्राप्तिर्जायते नात्र संशयः
भाद्रे मासि सिते पक्षे पंचम्यां नियतव्रतः