तीर्थानामपि तत्तीर्थं प्रविष्टोऽवंतिमंडले
तस्यां स्नात्वा ततो रामस्तर्पयामास पूर्वजान्
वाण्या ततोऽशरीरिण्या देवदेवेन भाषितम्
अत्र स्थानं मया दत्त मा विचारय राघव
अनुगृहीताः सौमित्रे देवदेवेन शंभुना
वाक्यं तल्लक्ष्मणः श्रुत्वा स्थापयामास शंकरम्
एहि लक्ष्मण शीघ्रं त्वं शिप्राया जलमानय
लक्ष्मणस्त्वब्रवीद्वाक्यं सीतया किं करिष्यसि
इयं च पुष्टा सुदृढा पीवरा च ममाग्रतः
श्रुत्वा रामो हि तद्वाक्यं लक्ष्मणेन प्रभाषितम् 5.1.31.
यदुक्तं लक्ष्मणेनाथ तच्च सीता चकार ह
नीत्वा विभावरीं तत्र गमनाय मनो दधे
सौमित्रिरब्रवीद्वाक्यं नाहं गन्ता कथंचन
नाहमग्रे वनं यामि न वायोध्यां कथं चन
कथं पूर्वमूयोध्याया निर्गतोऽसि मया सह
प्रमादः क्रियतां मह्यं नय मामपि राघव
लक्ष्मणस्त्वब्रवीद्राम नाहं गन्ता वनं पुनः
मा माऽनुव्रज सौमित्रे ह्येको यास्यामि काननम्
धनुः संगृह्य विमना उत्तस्थौ लक्ष्मणस्तदा 5.1.31.
निवर्तयस्व सौमित्रे समर्पय च मे धनुः
किमर्थं हि परित्यक्तः कोऽपराधः कृतो मया
रामं ततोऽब्रवीत्सीता किमर्थं लक्ष्मणस्त्वया
राघवस्त्वब्रवीत्सीतां नाहं त्यक्ष्यामि लक्ष्मणम्
श्रुतपूर्वं तु सुश्रोणि क्षेत्रस्यास्य विचेष्टितम्
परस्परं न मन्यंते स्वार्थनिष्ठैकहेतवः
न च शिष्यो गुरोर्वाक्यं गुरुर्वा शिष्यकर्म च
एवमुक्त्वा ययौ रामो लक्ष्मणो जानकी तथा
रामतीर्थे नरः स्नात्वा दृष्ट्वा रामेश्वरं शिवम्
सर्वपापविनिर्मुक्तः सौभाग्यं परमं लभेत् ।। 5.1.31.
घृततीर्थे नरः स्नात्वा घृतेन स्नापयेच्छिवम्