विमानैः कामिकैर्दिव्यैरप्सरोगणसेवितैः
प्रवरं सर्वतीर्थानां त्रिषु लोकेषु विश्रुतम्
तत्र स्नात्वा शुचिर्भूत्वा यः पश्यति महेश्वरम्
सर्वपापविनिर्मुक्तः स्वकीयकुलसंयुतः
जटाशृंगे नरः स्नात्वा शुचिर्भूत्वा जितेंद्रियः
महातपनमादौ च कृत्वा गच्छेच्छिवं प्रति
इंद्रतीर्थे नरः स्नात्वा दृष्ट्वा चेंद्रेश्वरं शिवम्
कुंडेश्वरं तु यः पश्येच्छिवध्यानपरायणः
गोपतीर्थे नरः स्नात्वा दृष्ट्वा गोपेश्वरं शिवम्
स्नात्वा तु चिपिटातीर्थे शिवं देवं प्रणम्य च
विजये च नरः स्नात्वा आनंदेश्वरपूजनात् 5.1.31.
अथान्यं संप्रवक्ष्यामि कुशस्थल्यां विनिर्मितम्
चित्रकूटात्पुरा रामो मैथिल्या लक्ष्मणेन च
यत्र गत्वा न चाप्नोति वियोगं सह बांधवैः
अनेन वनवासेन मरणेन पितुः प्रभो
तद्वाक्यं राघवेणोक्तं श्रुत्वा विप्रर्षभस्तदा
साधु पृष्टं त्वया वीर रघूणां वंशवर्धन
अवंतीविषये राम पुरी तस्मिन्कुशस्थली
देवः स वै सदा राजन्वांछितार्थफलप्रदः
तत्र गच्छंति ये विप्रा राजा चैव महावलः 5.1.31.
तीर्थानामपि तत्तीर्थं प्रविष्टोऽवंतिमंडले
तस्यां स्नात्वा ततो रामस्तर्पयामास पूर्वजान्
वाण्या ततोऽशरीरिण्या देवदेवेन भाषितम्
अत्र स्थानं मया दत्त मा विचारय राघव
अनुगृहीताः सौमित्रे देवदेवेन शंभुना
वाक्यं तल्लक्ष्मणः श्रुत्वा स्थापयामास शंकरम्
एहि लक्ष्मण शीघ्रं त्वं शिप्राया जलमानय
लक्ष्मणस्त्वब्रवीद्वाक्यं सीतया किं करिष्यसि
इयं च पुष्टा सुदृढा पीवरा च ममाग्रतः
श्रुत्वा रामो हि तद्वाक्यं लक्ष्मणेन प्रभाषितम् 5.1.31.