न तेषां विद्यते किंचिद्यत्प्रकाशं करोति च
न सहायो न जायेयं नालंबो न च देशिकाः
तत्राष्टाविंशतिः ख्याता घोरा नरककोटयः
सुखं तत्र कथं कृष्ण लभंते दुःखिता नराः
उवाच वचनं हृद्यं मनोरथफलप्रदम्
शृणुध्वं त्रिदशाः सर्वे यत्प्रवक्ष्यामि वो वचः
अवंत्यां वर्तते तीर्थं सद्यः पापहरं परम्
कार्तिकस्यासिते पक्षे चतुर्दश्यां समाहितः
संगृह्य वै तिलान्कृष्णान्पितृभक्तो जितेंद्रियः
अपसव्यं तथा कृत्वा मंत्रैः संतर्प येद्यमम् 5.1.30.
वैवस्वताय कालाय दक्षाय मनवे तथा
हरये रविपुत्राय कालिंदीसोदराय च
मंत्रैरेभिर्नमःप्रोक्तैरोंकाराद्यैः सुशोभनैः
संतर्पयेद्यमं देवं तिलपात्रं समाहितः
अनेन विधिना यस्तु संतर्पयेद्यमं विभुम्
रात्रिं तत्राथ संप्राप्य मानवः कामसंयुतः
नमः सूर्याय रुद्राय कालांतपतये नमः
कार्तिकं हि समग्रं तु वर्धंते तस्य संपदः
दिवाकराह्नेऽस्तमिते च सूर्ये दीपस्य वर्त्तिं पुरुष प्रमाणाम्
निक्षिप्य भूमावथ हस्तमात्रं मूर्ध्नि द्विहस्ताष्टदलान्वितस्य 5.1.30.
तत्कर्णिकायां तु महाप्रकाशो देयो हि दीपः परया च भक्त्या
अनंगलग्नं धवलं च वस्त्रं नवं सुरक्तं ह्यथवा सुशुक्लम्
तच्छालिपिष्टोपरि संनिधाय यथा न निर्याति न कंपते च
दलेषु शोभार्थमतीव कुर्यान्मनोरथप्रत्युपलब्धये च
संलिप्य भूमिं त्वथ गोमयेन पुनः सुगंधेन जलेन लिप्त्वा
ततो जलं शीतलमानयित्वा आपूर्य चाष्टौ कलशांस्तु रम्यान्
मध्वाज्ययुक्ता दधिदुग्धपूर्णा नैर्ऋत्यकोणादथ दक्षिणांतम्
प्रजापतिभ्यः क्रमशो हि भक्त्या प्रेतेभ्य इंद्राय तथा पितृभ्यः
गावो हिरण्यं रजतं च वस्त्रं फलानि मूलानि यवाश्च धान्यम्
विद्याधिकेभ्यो द्विजसत्तमेभ्यः पौराणिकेभ्यश्च तथा द्विजेभ्यः 5.1.30.