न ह्यालोको विना तेन शशिसूर्याग्निच क्षुषा
हे देव हे मुने सिद्धे हे ऋषे हे निशाचर
गतोऽसि कां दिशं तात को वा लब्धस्त्वया विभो
पाथेयमस्ति किंचित्ते दिशि किं वाथ कुत्रचित्
क्वचिद्वासि कथं तोयमथवा चित्तनिर्वृतिः
एवं प्रकारं करुणं समाभाष्य परस्परम्
भूमेर्विवरमाश्रित्य प्राणिनो ये वसंत्यपि
न तेषां विद्यते सूर्यो नेन्दुर्नान्ये महाग्रहाः
केनालोकेन पश्यंति समानि विषमाणि च
विचरन्तः समं को वा मनो रथशतप्रदः 5.1.30.
समे शय्या जले नौश्च रोगे सत्परिचारकः
सुहृद्विदेशे च्छायोष्णे निर्धूमः शिशिरे शिखी
सर्वदश्चैव सर्वेषां मनोरथशतप्रदः
ब्रुवंत इति ते व्यास शुश्रुवुर्मधुरां गिरम्
न जानंति स्थितः कुत्र भाषते केशवो विभुः
दानमेकं सदा सम्य क्चिंतामणिसमं स्मृतम्
तच्च देयमतः सर्वैः शृणुध्वं तत्त्वतो भृशम्
उत्पादितो दीपवरो येन ध्वस्तमिदं तमः
निष्कंपो निर्मलो हृद्यः सुस्थिरो भास्करप्रभः तेन दीपप्रकाशेन गोकर्णो निर्वृतिं ययौ
नागाः शेषादयः सर्वे नोद्यमानाश्च संघशः 5.1.30.
पर्वतेषु समुद्रेषु वनेषूपवनेषु च
भुंजानाः पञ्च मूलानि दिव्यानि क्षीरसंयुतम्
चन्द्रशालिभवं भक्तं तांबूलं सप्तधा गतम्
शयनेषु महार्हेषु हृद्यासु वनराजिषु
रमन्ते स्म च ते सर्वे ह्युद्वेष्टंतः परस्परम्
सूर्यतापभयान्मुक्ताश्चंद्ररश्मिभयाच्च ते
सूर्यतापेन दाहः स्याच्छीतं चंद्रमरीचिभिः
सौवर्णान्दीपका न्कृत्वा द्विजेभ्यस्ते ददुः पुनः
वसंति सुखिनस्तत्र स्वर्गादष्टगुणैः सुखैः
एतद्गुह्यं मया ख्यातं भवतां चानुकम्पया 5.1.30.