इतीदमेव जल्पंती जगाम विंध्यपर्वतम्
स्मरंस्तदेव चेष्टितं तदेव पूर्वभाषितम्
यतो मया हिमाद्रिजा समस्तलोकसुन्दरी
इतीदमेव सोऽवदद्गतस्त्वद्दर्शनं ततः
ततो जगद्धि संकुलं महाभयेन संयुतम्
विहाय मंदिराणि ते परं विषादमागताः
नष्टालोकं जगत्सर्वं कांतारमभवत्तदा
त्रीणि नेत्राणि रुद्रस्य यतः सूर्येंदुव ह्नयः
ततस्तमसि दुस्तारे संभूते लोमहर्षणे
एषा बुद्धिस्ततस्तेषामुत्पन्ना कार्यसिद्धये 5.1.30.
न ह्यालोको विना तेन शशिसूर्याग्निच क्षुषा
हे देव हे मुने सिद्धे हे ऋषे हे निशाचर
गतोऽसि कां दिशं तात को वा लब्धस्त्वया विभो
पाथेयमस्ति किंचित्ते दिशि किं वाथ कुत्रचित्
क्वचिद्वासि कथं तोयमथवा चित्तनिर्वृतिः
एवं प्रकारं करुणं समाभाष्य परस्परम्
भूमेर्विवरमाश्रित्य प्राणिनो ये वसंत्यपि
न तेषां विद्यते सूर्यो नेन्दुर्नान्ये महाग्रहाः
केनालोकेन पश्यंति समानि विषमाणि च
विचरन्तः समं को वा मनो रथशतप्रदः 5.1.30.
समे शय्या जले नौश्च रोगे सत्परिचारकः
सुहृद्विदेशे च्छायोष्णे निर्धूमः शिशिरे शिखी
सर्वदश्चैव सर्वेषां मनोरथशतप्रदः
ब्रुवंत इति ते व्यास शुश्रुवुर्मधुरां गिरम्
न जानंति स्थितः कुत्र भाषते केशवो विभुः
दानमेकं सदा सम्य क्चिंतामणिसमं स्मृतम्
तच्च देयमतः सर्वैः शृणुध्वं तत्त्वतो भृशम्
उत्पादितो दीपवरो येन ध्वस्तमिदं तमः
निष्कंपो निर्मलो हृद्यः सुस्थिरो भास्करप्रभः तेन दीपप्रकाशेन गोकर्णो निर्वृतिं ययौ
नागाः शेषादयः सर्वे नोद्यमानाश्च संघशः 5.1.30.