उत्ससर्ज ततस्तारा कुमारं देवरूपिणम् 5.1.28.
स तेजो जातमात्रोऽपि देवानामाक्षिपच्छिशुः
कस्यायं ब्रूहि सुभगे सोमस्याथ बृहस्पतेः
यदत्र सत्यं तद्ब्रूहि तारे कस्य सुतो ह्ययम्
सोमस्येति रहः सोऽयं कुमारो देवसंनिभः
बुध इत्यकरोन्नाम तस्य पुत्रस्य वै तदा
तेन सोमोऽभवत्कुष्ठी क्षयरोगयुतस्तदा
अवन्तीमाजगामाशु सोमो देवदिदृक्षया
स्नात्वा संपूजयामास सोमः सोमेश्वरं ततः
मत्प्रसादाद्वपुः कांतं तव सोम भविष्यति
एवं व्यास तु तत्तीर्थं लिंगं चैवाति दुर्लभम् 5.1.28.
श्रावणं प्राप्य यो मासं सोमनाथं जितेंद्रियः
सौराष्ट्रे सोमनाथस्य पूजायाः प्रत्यहं फलम्
तीर्थे चानरके स्नात्वा दृष्ट्वा देवं महेश्वरम्
पतन्ति केन पापेन पापिनस्तेषु दुःखिताः
तत्कथं प्राणिनस्तत्र गच्छन्ति पापकारिणः
सनत्कुमार उवाच शृणुष्व नरकान्व्यास तावन्तो यत्र संस्थिताः
पातालनि लयाः सर्वे विख्याता दुःखदाः सदा
रौरवः सूकरो रौद्रस्तालो विनशकस्तथा
कुंभीपाकः क्रकचनस्तथा देवातिदारुणः
अधोमुखश्चास्थिभंगो यंत्रपीडनकस्तथा
इत्येवमादयः सर्वे नरका भृशदारुणाः
पतंति पुरुषास्तेषु पापकर्मरताश्च ये 5.1.29.
यातनाभिर्विचित्राभी रौद्रकर्म क्षयाद्भृशम्
महावृक्षाग्रशृंगेषु लंब्यंते यमकिंकरैः
अग्निवर्णैः शंकुभिश्च लोहदंडैः सकंटकैः
तत्तत्क्षणात्प्रदीप्तेन वह्निना च विशेषतः
कूटसाक्षी तथाऽसम्यक्पक्षपातेन यो वदेत्
सुरापो ब्रह्महा हर्ता सुवर्णस्य च सूचकः
भ्रूणहा गुरुहंता च गोघ्नश्च मुनिसत्तम