चत्वारोऽप्यत्र पापेन मुच्यंते दर्शनाद्ध्रुवम् 5.1.28.
स्नानं दानं च यो धीमाञ्जपं होमं समाचरेत्
तिलोदकप्रदानेन पिंडदानेन कारिता
सर्वत्र दुर्लभा सिप्रा सोमं सोमग्रहस्तथा
शिप्रासोमजलं व्यास कोटितीर्थफलप्रदम्
अमायां सोमवारश्चेद्व्यतीपातो यदा भवेत्
एवं सोमवतीतीर्थं जातमत्र महामुने
रथे तं स्थापयामास लोकानां हितकाम्यया
युक्तो वाजिसहस्रेण ब्रह्मणा प्रेरितस्तदा
तुष्टुवुः सर्वभावेन हृष्टाः सर्वे समाहिताः
आप्यायमानं त्रीँल्लोकान्पपात धरणीतले 5.1.28.
त्रिःसप्तकृत्वोऽतिशयाच्चकाराब्धिप्रदक्षिणम्
तदेवौषधयो दिव्या जाता भुवि सुनिर्मलाः
तुष्टोऽथ भगवान्सोमो जगतेः सर्वदा मुने
ततस्तस्मै ददौ वाक्यं ब्रह्मा लोकपितामहः
सप्तविंशतिं सोमाय दाक्षायणीर्महाव्रताः
स तत्प्राप्य महद्राज्यं सोमो भार्यायुतस्तदा
होता च भगवानत्रिरध्वर्युर्भगवान्भृगुः
सदस्यो भगवान्विष्णुः सनकादिमुखैर्युतः
सिनीवाली कुहूश्चैव धृतिः पुष्टिः प्रभा वसुः
प्राप्यावभृथमव्यग्रः सर्वदेवर्षिपूजितः 5.1.28.
तस्य तत्प्राप्य दुष्प्राप्यमैश्वर्यमृषिसंस्कृतम्
बृहस्पतेस्तदा भार्यां तारानाम्नीं यशस्विनीम्
वाच्यमानस्तदा सोमो देवदेवर्षिभिस्तथा
बृहस्पतेस्ततः पक्षं शक्रो जग्राह कोपतः
ततो युद्धमभूत्तत्र सुघोरं शक्रसोमयोः
सर्वे भीतास्ततो देवा ब्रह्माणं शरणं गताः
देवानां वचनं श्रुत्वा सार्द्धं देवैः पितामहः
वारितास्ते स्थितास्तत्र युद्धं त्यक्त्वा सुरासुराः
तामंतःप्रसवां दृष्ट्वा प्राह भार्यां बृहस्पतिः