तस्यां स्नात्वा शुचिर्भूत्वा पश्येत्पशुपतिं तु यः
सुवर्णमणिमुक्ताद्यैर्विमानैः सर्वकामगैः 5.1.28.
रूपकुंडे नरः स्नात्वा सुरूपो जायतेनरः
कुंडे स्नात्वाप्यनंगे यः शुचिर्भूत्वा समाहितः कामं स लभतेऽभीष्टं मृतो याति शिवालयम्
आषाढे तु सिताष्टम्यां जागरं यस्तु कारयेत्
करीकुंडे नरः स्नात्वा विश्वरूपं तु योऽर्चयेत्
अजागंधे नरः स्नात्वा दृष्ट्वा ब्रह्मेश्वरं शिवम्
चक्रतीर्थे नरः स्नात्वा चक्र स्वामिनमर्चयेत् ४६. कामिकेन विमानेन रुद्रलोकं स गच्छति
सोमवन्निर्मलो भूत्वा सोमलोके स मोदते
अभूदेतत्कथं नाम श्रोतुमिच्छामि तत्त्वतः
सोमेश्वरं यथा लिंगमेतत्सत्यं वदामि ते ।।5.1.28.
यो देवो भगवान्सोमो लोकस्याप्यायनं परम्
अवन्त्यां च महाभागो योऽत्रिर्नामा तपोनिधिः
[http://puranastudy.page.tl/Atri-%26%232309%3B%26%232340%3B%26%232381%3B%26%232352%3B%26%232367%3B.htm अत्रि शब्दोपरि टिप्पणी] ऊर्ध्वबाहुः स वै तेपे ब्रह्मध्यानपरायणः
नेत्राभ्यां तेन सुस्राव भासयच्च दिशो दश
दिशश्च तद्यदा व्यास सर्वा धर्तुं न चाशकन्
लोकांश्च भासयत्सर्वान्धरण्यां वै पपात ह
वारि सोमात्समुत्पन्नं व्यास तेनैव तेजसा
ततः सोमवती शिप्रा विख्याता सर्वसि द्धिदा
ख्याता च त्रिषु लोकेषु पापिनां पुण्यदायिनी
चत्वारोऽप्यत्र पापेन मुच्यंते दर्शनाद्ध्रुवम् 5.1.28.
स्नानं दानं च यो धीमाञ्जपं होमं समाचरेत्
तिलोदकप्रदानेन पिंडदानेन कारिता
सर्वत्र दुर्लभा सिप्रा सोमं सोमग्रहस्तथा
शिप्रासोमजलं व्यास कोटितीर्थफलप्रदम्
अमायां सोमवारश्चेद्व्यतीपातो यदा भवेत्
एवं सोमवतीतीर्थं जातमत्र महामुने
रथे तं स्थापयामास लोकानां हितकाम्यया
युक्तो वाजिसहस्रेण ब्रह्मणा प्रेरितस्तदा
तुष्टुवुः सर्वभावेन हृष्टाः सर्वे समाहिताः