ततोऽधिकं स लभते नात्र कार्या विचारणा
ततः प्रसिद्धो लोकेऽस्मिन्नृद्धिदः करभेश्वरः ।। 5.1.28.
सनत्कुमार उवाच लइडुकैश्च ततो देवैर्विघ्ननाथः समर्चितः
यः समर्चयते भक्त्या तस्य विघ्नो न जायते
निराहारश्चतुर्थ्यां च स्नात्वा शिप्रां विशेषतः
रक्तचंदनतोयेन मंत्रैः स्नपनपूर्वकम्
धूपं दद्यात्तथा दिव्यं सुगंधं लड्डुकप्रिये
न तस्य जायते व्याधिर्भयं विघ्नं कदाचन
अवतीर्णः पुनर्लोके जायते वसुधाधिपः
श्रद्धया पूजयेद्यस्तु शिवलोके स मोदते
जयेश्वरं तु यः पश्येद्देवदेवं महेश्वरम्
शिवद्वारे शिवं लिंगमर्चयेन्मानवो यदि 5.1.28.
अथान्यं संप्रवक्ष्यामि मार्कंडेश्वरमुत्तमम्
दृष्ट्वा तं शंकरं देवं वाजपेयफलं लभेत्
शृणु व्यास महास्थानं यस्यां पुर्यामनुत्तमम्
भक्तानां पूरयेदाशां पुत्रवत्परिपालयेत्
अर्चिता ब्रह्मणा सा तु स्तुता देवी सुरोत्तमैः अपि या ब्रह्मणः पूर्वमभूदेव सुसिद्धिदा
यः स्नात्वा ब्रह्मसरसि पश्ये द्ब्रह्मेश्वरं शिवम्
अथान्यां संप्रवक्ष्यामि यज्ञवापीमनुत्तमाम्
यज्ञार्थं यत्कृतं कुंडं यज्ञवापी च सा स्मृता
तस्यां स्नात्वा शुचिर्भूत्वा पश्येत्पशुपतिं तु यः
सुवर्णमणिमुक्ताद्यैर्विमानैः सर्वकामगैः 5.1.28.
रूपकुंडे नरः स्नात्वा सुरूपो जायतेनरः
कुंडे स्नात्वाप्यनंगे यः शुचिर्भूत्वा समाहितः कामं स लभतेऽभीष्टं मृतो याति शिवालयम्
आषाढे तु सिताष्टम्यां जागरं यस्तु कारयेत्
करीकुंडे नरः स्नात्वा विश्वरूपं तु योऽर्चयेत्
अजागंधे नरः स्नात्वा दृष्ट्वा ब्रह्मेश्वरं शिवम्
चक्रतीर्थे नरः स्नात्वा चक्र स्वामिनमर्चयेत् ४६. कामिकेन विमानेन रुद्रलोकं स गच्छति
सोमवन्निर्मलो भूत्वा सोमलोके स मोदते
अभूदेतत्कथं नाम श्रोतुमिच्छामि तत्त्वतः