गंधपुष्पैश्च धूपैश्च नैवेद्यैर्विविधैस्तथा 5.1.27.
पुनर्लोक मिमं प्राप्य पवित्रे जायते कुले
चंद्रादित्यमिति ख्यातं चंद्रादित्यार्चितं पुरा
यस्तं समर्चयेद्देवं सुरासुरनमस्कृतम्
चंद्रादित्यादिसालोक्यं प्रयाति सर्वकामिकम्
यस्य दर्शनमात्रेण कुयोनौ नैव जायते
कथं देवः समुत्पन्नः करभेशेतिसंज्ञितः
वनेऽस्मिन्क्रीडयामास परमाह्लादसंयुतः
क्रीडन्बहुतिथे काले शंकरः करभोऽभवत्
अन्वेषयंति ते देवास्ततो विस्मयसंयुताः
देवैः पृष्टस्ततो ब्रह्मा क्वास्ति देवो महेश्वरः
देवैः सार्धं ततो ब्रह्मा पप्रच्छ गणनायकम् 5.1.28.
कथयस्व नमस्तुभ्यं दास्यामो लड्डुकान्विभो
करभोऽयं महाऽदेवो दृश्यते विबुधो त्तमाः
ज्ञातोऽस्माभिर्महादेव जल्पंत इति ते स्वयम्
विचिंत्येति कथं ज्ञातः शंकरो विस्मयं गतः
लिंगमुत्पादयामास दिव्यं यत्करभे श्वरम्
ततःप्रभृति विख्यातः शंकरः करभेश्वरः
स्वनाम्ना प्रथितं चक्रे करभं चातिपूजितम्
गंधपुष्पैश्च नैवेद्यैः शृणु तेषां च यत्फलम्
ततोऽधिकं स लभते नात्र कार्या विचारणा
ततः प्रसिद्धो लोकेऽस्मिन्नृद्धिदः करभेश्वरः ।। 5.1.28.
सनत्कुमार उवाच लइडुकैश्च ततो देवैर्विघ्ननाथः समर्चितः
यः समर्चयते भक्त्या तस्य विघ्नो न जायते
निराहारश्चतुर्थ्यां च स्नात्वा शिप्रां विशेषतः
रक्तचंदनतोयेन मंत्रैः स्नपनपूर्वकम्
धूपं दद्यात्तथा दिव्यं सुगंधं लड्डुकप्रिये
न तस्य जायते व्याधिर्भयं विघ्नं कदाचन
अवतीर्णः पुनर्लोके जायते वसुधाधिपः
श्रद्धया पूजयेद्यस्तु शिवलोके स मोदते