ततः प्राप्य गुरोः पुत्रं प्रभुः प्रीतः प्रजापतिम्
अवंत्यामंकपादाख्ये मृता नेक्षंति ते यमम्
महाकालपुरे देवमाद्यं वै पुरुषोत्तमम्
ये पश्यंति कुशस्थल्यामेतेषां मूर्तिपंचकम्
तथैवागमनादत्र मम रामस्य ना रकाः
इत्युक्ते वचने वेधाः प्रोवाच प्रीतिमान्हरिम्
ये च त्वामादिपुरुषं प्रथमं पुरुषोत्तमम्
अधोज्वालं महाकालं सोऽश्वमेधफलं लभेत्
संमान्य वेधसं कालं समारोहद्रथं ततः 5.1.27.
नाल्पमृत्युर्भवेत्तस्य न व्याधिर्न च दुर्गतिः 5.1.27.
गंधपुष्पैश्च धूपैश्च नैवेद्यैर्विविधैस्तथा 5.1.27.
पुनर्लोक मिमं प्राप्य पवित्रे जायते कुले
चंद्रादित्यमिति ख्यातं चंद्रादित्यार्चितं पुरा
यस्तं समर्चयेद्देवं सुरासुरनमस्कृतम्
चंद्रादित्यादिसालोक्यं प्रयाति सर्वकामिकम्
यस्य दर्शनमात्रेण कुयोनौ नैव जायते
कथं देवः समुत्पन्नः करभेशेतिसंज्ञितः
वनेऽस्मिन्क्रीडयामास परमाह्लादसंयुतः
क्रीडन्बहुतिथे काले शंकरः करभोऽभवत्
अन्वेषयंति ते देवास्ततो विस्मयसंयुताः
देवैः पृष्टस्ततो ब्रह्मा क्वास्ति देवो महेश्वरः
देवैः सार्धं ततो ब्रह्मा पप्रच्छ गणनायकम् 5.1.28.
कथयस्व नमस्तुभ्यं दास्यामो लड्डुकान्विभो
करभोऽयं महाऽदेवो दृश्यते विबुधो त्तमाः
ज्ञातोऽस्माभिर्महादेव जल्पंत इति ते स्वयम्
विचिंत्येति कथं ज्ञातः शंकरो विस्मयं गतः
लिंगमुत्पादयामास दिव्यं यत्करभे श्वरम्
ततःप्रभृति विख्यातः शंकरः करभेश्वरः
स्वनाम्ना प्रथितं चक्रे करभं चातिपूजितम्
गंधपुष्पैश्च नैवेद्यैः शृणु तेषां च यत्फलम्