भवेद्बृहस्पतेः पीडा यस्य गोचरवेधतः
होमं कृत्वा गुरोर्मूर्तिः सुवर्णेन विनिर्मिता
वेदज्ञायातिशुचये स्नात्वा पीडापनुत्तये
एवं कृते न संदेहो ग्रहपीडा प्रणश्यति
तद्दक्षिणे मुनिश्रेष्ठ रुक्मिणीकुण्डमुत्तमम् 2.8.7.
तत्र विष्णुः स्वयं चक्रे निवासं सलिले तदा
तत्र स्नानं तथा दानं होमं वैष्णवमंत्रकम्
तत्र सांवत्सरी यात्रा कर्त्तव्या सुप्रयत्नतः
पुत्रवाञ्जायते वन्ध्यो यात्रां कृत्वा न संशयः
भुक्त्वा भोगान्समग्रांश्च विष्णुलोके स मोदते
सर्वकाममवाप्नोति तत्र स्नानेन मानवः
कर्त्तव्या विधिवत्पूजा ब्राह्मणानां विशेषतः
पीतांबरधरः स्रग्वी नारदादिभिरीडितः
सर्वकामफलावाप्त्यै वक्षोलक्षितकौस्तुभः
एवं कृते न संदेहः सर्वान्कामानवाप्नुयात् 2.8.7.
अतः परं प्रवक्ष्यामि तीर्थमन्यदघापहम्
परं पवित्रमतुलं सर्वकामार्थसिद्धिदम्
रुक्मिणीकुण्डवायव्यदिग्दले संस्मृतं शुभम्
तस्य रक्षार्थमत्यर्थं रक्षितो यक्षउच्चकैः
हरिश्चंद्रं नरपतिं राज्यसूयकरं परम्
तद्वशेऽदाच्च स मुनिर्धनं सकलमुत्तमम्
प्रमंथुर इति ख्यातं प्रमोदानन्दमंदिरम्
तुतोष स मुनिर्द्धीमान्कदाचिद्विजितेन्द्रियः
वरं वरय धर्मज्ञ क्षिप्रमेव विमत्सरः
ममांगमतिदुर्गंधि शापाच्च नृपतेरभूत् 2.8.7.
तं विविच्यानया भक्त्या अभिषेकं चकार सः
तीर्थोदकेन विधिवत्कृत्वा संकल्पमादरात्
तथाभूतः स मधुरं प्रोवाच प्रांजलिस्ततः
एतत्स्थानं यथा ख्यातिं याति सर्वज्ञ तत्कुरु
त्वत्प्रसादेन विप्रर्षे तथा यत्नं विधेहि वै