सर्वोपपातकैर्युक्तैर्ब्रह्महत्यादिपातकैः
विष्णोराद्या पुरी येयं क्षितिं न स्पृशति द्विज
केन वर्णयितुं शक्यो महिमाऽस्यास्तपोधन
सहस्रधारामारभ्य योजनं पूर्वतो दिशि
दक्षिणोत्तरभागे तु सरयूतमसावधिः मत्स्याकृतिरियं विप्र पुरी विष्णोरुदीरिता
पश्चिमे तस्य मूर्द्धा तु गोप्रतारासिता द्विज
पूर्वतः पृष्ठभागो हि दक्षिणोत्तरमध्यमः पूर्वंदृष्टप्रभावोऽसौ प्राधान्येन वसत्यपि
कीर्तितो मुनिशार्दूल प्रसिद्धिं गतवान्कथम्
अगस्त्य उवाच विष्णुशर्मेति विख्यातः पुराभूद्ब्राह्मणोत्तमः
योगध्यानरतो नित्यं विष्णुभक्तिपरायणः अयोध्यामागतो विष्णुर्विष्णुःसाक्षाद्वसेदिति ।। 2.8.1.
चिंतयन्मनसा वीरस्तपः कर्तुं समुद्यतः
ग्रीष्मे पंचाग्निमध्यस्थो ह्यतपत्स महातपाः
स्नात्वा यथोक्तविधिना कृत्वा विष्णोस्तथार्चनम्
मनो विष्णौ समावेश्य विधाय प्राणसंयमम्
तन्मध्ये रविसोमाग्निमण्डलानि यथाविधि
पीतांबरधरं विष्णुं शंखचक्रगदाधरम्
ब्रह्मरूपं हरिं ध्यायञ्जपन्वै द्वादशाक्षरम्
ततो द्विजवरो ध्यात्वा स्तुतिं चक्रे हरेरिमाम् विष्णुशर्माथ तुष्टाव नारायणमतंद्रितः
प्रसीद देवदेवेश प्रसीद कमलेक्षण
जय कृष्ण जयाचिंत्य जय विष्णो जयाव्यय 2.8.1.
जय पापहरानंत जय जन्मज्वरापह
नमः सर्वेश भूतेश नमः कैटभसूदन
नमो देवाधिदेवाय नमो नारायणाय वै
त्वं माता सर्वलोकानां त्वमेव जगतः पिता
त्वं हविस्त्वं वषट्कारस्त्वं प्रभुस्त्वं हुताशनः
शंखचक्रगदापाणे मां समुद्धर माधव
प्रसीद मंदरधर प्रसीद मधुसूदन
आविर्बभूव विश्वात्मा विष्णुर्गरुडवाहनः
शंखचक्रगदापाणिः पीतांबरधरोऽच्युतः
स्तोत्रेणानेन सुमते नष्टपापोऽसि सांप्रतम् ।।2.8.1.