ततो वादित्रनिर्घोषैस्तुमुलानकगोमुखैः
देवा विद्याधराः सिद्धा दृष्ट्वा यांतं महाबलम्
ततस्ते किंकराः सर्वे चित्रगुप्तेन नोदिताः
बलं च केशवं संख्ये जघ्नतुस्तावुभावपि
विदार्य च सहस्राणि किंकराणां समंततः चचार रणदुर्धर्षः कामपालेन पालितः
ततश्चित्रगुप्तो रणे किंकराद्यं विदीर्णं निरीक्ष्यार्तनादं चकार
शरैः पंचभिः कृष्णमायांतमाजौ जघानाष्टभिर्वक्त्रदेशे स भिन्नः
रथं स्वं समादाय यातः कृतांतस्ततश्चित्रगुप्ते शरार्ते प्रसुप्ते
प्रधानाश्च भग्ना विचित्राश्च भग्रास्ततश्चित्रगुप्तं निशम्याथ भग्नम्
विनाशाय युध्यद्युगांते प्रजानां यथा वाडवो ज्वालवृद्धः प्रवृत्तः 5.1.27.
स कालः करालं समादाय दंडं मुमोचाच्युते पश्यतां देवतानाम्
ततो देवगंधर्वयक्षा मुनींद्राः परं विस्मयं प्रापुरावीक्ष्य रामम्
गृहीते बलेनाहवे कालदंडे मोक्तुकामे पुनः कालनाशाय वै। तूर्णमभ्येत्य तत्रांतरे रणे वारयामास कृष्णं तदा
मा मुंचेत्यब्रवीद्वेधाः कालं कालायुधं बल
धार्यते शिरसा देव संसारे नास्ति ते समः कोऽन्योस्ति त्वत्समो राम यो जगद्दहने क्षमः
पाल्यते यत्त्वया सोपि विष्णुर्विश्वैकनायकः
ततो वयं त्वदंकस्थविष्णुनाभिभवा यतः
उवाच चतुरास्यस्तु स्तुतिश्च वृतः सुरैः
यतो भवंतमायांतं विष्णुं विश्वैकनायकम् 5.1.27.
त्वया वै भगवन्पूर्वं यमः संस्थापितः पदे
तस्मादस्य जगन्नाथ क्षम्यतां पुरुषोत्तम
एतच्छुत्वाऽब्रवीत्कृष्णो धातः शृणु गुरोर्मम
समर्प्यतां गुरुश्रेष्ठ श्रेष्ठाय गुरुदक्षिणा
एतत्पितामहः श्रुत्वा यमं समरनिर्जितम्
तच्छ्रुत्वा धर्मराजस्तु विरंचिमिदमब्रवीत्
यमलोकमनुप्राप्य कायहीनः शरीरवान्
तच्छुत्वा हि पुनर्ब्रह्मा विश्वस्यास्य विभुः स्वयम्
तस्मादर्पय पुत्रं त्वं मुनेः सांदीपनेश्च यः
तच्छुत्वा धर्मराजस्तु पुत्रं सांदीपनेस्तथा 5.1.27.
अर्पयामास कृष्णस्य बालं रूपसमन्वितम्