दुस्तरा सुतरा जाता नदी वैतरणी नृणाम् ।। नरकांते तदा जाते गते विश्वेश्वरे विभौ
पापक्षयात्ततः सर्वे ते मुक्ता नारका नराः
विमानेषु सहस्रेषु ह्यारूढास्ते समंततः
ततः शून्यं मुने जातं सर्वं निरयमंडलम्
ततो दूताः कृतांतस्य कृष्णं च युद्धकारिणम्
किंकरा ऊचुः मा वीरानेन मार्गेण रथमानय मानवन्
यमादिष्टा नराः पापा येऽमोच्या वर्षकोटिभिः
एतच्छ्रुत्वा वचस्तेषां कृपया पीडितो भृशम्
सर्वेषां स्वर्गदाताहं यमलोकनिवारकः
एतच्छ्रुत्वा वचो दूताः सत्वरा यममागताः 5.1.27.
ततो यमो रुषाविष्टः प्राह तान्यमकिंकरान्
तं गत्वा वारयध्वं वै गृहीत्वानीयतामिति
एवमुक्तो यमेनाथ किंकरः स नरांतकः
यदा न वारितस्तस्थौ तदा क्रुद्धो नरांतकः
बलदेवोपि समरे ताडितो विविधैः शरैः
आदाय धनुषी दिव्ये जघ्नतुर्यमकिंकरान्
नरांतकोऽपि समरे बलेन बलिनार्दितः
ततो नरांतके वीरे पतिते यमकिंकरे
रामकृष्णाभ्यां ते दूता हन्यमाना भयातुराः
ततो यमो ययौ क्रुद्धः समंतात्किंकरैर्वृतः 5.1.27.
ततो वादित्रनिर्घोषैस्तुमुलानकगोमुखैः
देवा विद्याधराः सिद्धा दृष्ट्वा यांतं महाबलम्
ततस्ते किंकराः सर्वे चित्रगुप्तेन नोदिताः
बलं च केशवं संख्ये जघ्नतुस्तावुभावपि
विदार्य च सहस्राणि किंकराणां समंततः चचार रणदुर्धर्षः कामपालेन पालितः
ततश्चित्रगुप्तो रणे किंकराद्यं विदीर्णं निरीक्ष्यार्तनादं चकार
शरैः पंचभिः कृष्णमायांतमाजौ जघानाष्टभिर्वक्त्रदेशे स भिन्नः
रथं स्वं समादाय यातः कृतांतस्ततश्चित्रगुप्ते शरार्ते प्रसुप्ते
प्रधानाश्च भग्ना विचित्राश्च भग्रास्ततश्चित्रगुप्तं निशम्याथ भग्नम्
विनाशाय युध्यद्युगांते प्रजानां यथा वाडवो ज्वालवृद्धः प्रवृत्तः 5.1.27.