प्रभासे तीर्थयात्रायां त्वमेव तमिहानय
तं समुद्र उवाचेदं दैत्यः पंचजनो महान्
ततः पंचजनं हत्वा ग्राहरूपं महाबलम्
जलेश्वरगृहात्तेन ग्राहेणातीव लीलया
यमालयगतं मत्वा तदा वरुणमब्रवीत्
पुराजिरे हता दैत्या दानवा बलदर्पिताः
न्यासभूतो रथो यस्ते विधृतो निहतारिणा
येनाहवे प्रेतराजं जित्वा पश्यामि बालकम् ददौ तं रथमक्षोभ्यं रणे तस्मै सुरासुरैः
ततो हरिः समालोक्य रथं रत्नपरिष्कृतम्
नाना चित्रविचित्रांगं गरुडध्वजराजितम् 5.1.27.
अजेयं देवदेवेंद्रदानवासुरराक्षसैः
सहस्रसूर्यप्रतिमं चारुवक्त्रचतुर्युगम्
संवर्ताकारविषमं खगेंद्रवरकेतनम्
प्रदक्षिणमुपाकृत्य देवताभ्यः प्रणम्य च
ततो जगाम त्वरितो जनार्दनो जगन्निवासो यमलोकमाश्रिताम्
तत्र प्रध्यापयामास शंखं शार्ङ्गधनुर्धरः
नरकांतर्गता मर्त्याः पापाचारपरायणाः
शस्त्राणि कुंठतां प्रापुर्यंत्राणि विविधानि च
असिपत्रवनंनाम शीर्णपर्णमजायत
अभैरवं भैरवाख्यं कुंभीपाकमवाचिकम् 5.1.27.
दुस्तरा सुतरा जाता नदी वैतरणी नृणाम् ।। नरकांते तदा जाते गते विश्वेश्वरे विभौ
पापक्षयात्ततः सर्वे ते मुक्ता नारका नराः
विमानेषु सहस्रेषु ह्यारूढास्ते समंततः
ततः शून्यं मुने जातं सर्वं निरयमंडलम्
ततो दूताः कृतांतस्य कृष्णं च युद्धकारिणम्
किंकरा ऊचुः मा वीरानेन मार्गेण रथमानय मानवन्
यमादिष्टा नराः पापा येऽमोच्या वर्षकोटिभिः
एतच्छ्रुत्वा वचस्तेषां कृपया पीडितो भृशम्
सर्वेषां स्वर्गदाताहं यमलोकनिवारकः
एतच्छ्रुत्वा वचो दूताः सत्वरा यममागताः 5.1.27.