शिष्यैस्तु सहितो विप्रो महाकालवनेऽविशत् ।। शिष्यैः सह प्रविष्टौ द्वौ तदा तौ रामकेशवौ
वन्दमानौ महाकालं स तं केशवमव्रवीत्
सुखमासीच्च साधूनामज्ञानानां च सर्वदा
युवाभ्यां ते हताः सर्वे कंसप्रमुखतो नृपाः । मुनिसिद्धसुरादीनां स्थितिः कार्या त्वयाऽनघ
करिष्यामि तमित्युक्त्वा स नमस्य ततो ययौ
कस्य न श्रद्दधे तेषां वचस्त्वत्यद्भुतं यतः
ततस्तत्रोत्थितः शब्दः संश्लेषे च तथा तयोः
न वै ज्ञातौ मया वीरौ यदुवृष्णिकुलोद्भवौ
गुर्वर्थं किं ददामीति सह रामेण हर्षितः
पुत्रमिच्छाम्यहं त्वत्तो यो मृतो लवणांभसि 5.1.27.
प्रभासे तीर्थयात्रायां त्वमेव तमिहानय
तं समुद्र उवाचेदं दैत्यः पंचजनो महान्
ततः पंचजनं हत्वा ग्राहरूपं महाबलम्
जलेश्वरगृहात्तेन ग्राहेणातीव लीलया
यमालयगतं मत्वा तदा वरुणमब्रवीत्
पुराजिरे हता दैत्या दानवा बलदर्पिताः
न्यासभूतो रथो यस्ते विधृतो निहतारिणा
येनाहवे प्रेतराजं जित्वा पश्यामि बालकम् ददौ तं रथमक्षोभ्यं रणे तस्मै सुरासुरैः
ततो हरिः समालोक्य रथं रत्नपरिष्कृतम्
नाना चित्रविचित्रांगं गरुडध्वजराजितम् 5.1.27.
अजेयं देवदेवेंद्रदानवासुरराक्षसैः
सहस्रसूर्यप्रतिमं चारुवक्त्रचतुर्युगम्
संवर्ताकारविषमं खगेंद्रवरकेतनम्
प्रदक्षिणमुपाकृत्य देवताभ्यः प्रणम्य च
ततो जगाम त्वरितो जनार्दनो जगन्निवासो यमलोकमाश्रिताम्
तत्र प्रध्यापयामास शंखं शार्ङ्गधनुर्धरः
नरकांतर्गता मर्त्याः पापाचारपरायणाः
शस्त्राणि कुंठतां प्रापुर्यंत्राणि विविधानि च
असिपत्रवनंनाम शीर्णपर्णमजायत
अभैरवं भैरवाख्यं कुंभीपाकमवाचिकम् 5.1.27.