न पुत्रे पितृ वित्तं च विद्या वापि भविष्यति
रौद्रां भिक्षां तु भिक्षंतः परपिंडोपजीविनः
यैश्च तत्र कृता विप्रैर्हन्यमाने कृपा मयि
कुलोत्पन्नाश्च वै नार्यो भविष्यंति वरान्मम
ततो द्विजा गते देवे मत्वा तं शंकरं विभुम्
स्नात्वा सरसि रुद्रस्य जपतः शतरुद्रियम्
अनृतं न मया प्रोक्तं स्वैरेष्वेपि कुतः सुखम्
शांता दांताश्च ये विप्रा भक्तिमंतो मयि स्थिताः 5.1.26.
अग्निहोत्ररता ये च भक्तिमंतो जनार्दने
नाशुभं विद्यते तेषां येषां सख्ये स्थिता मतिः
एवं शापं वरं लब्ध्वा देवदेवान्महेश्वरात्
विरंचिमथ ते जाप्यैस्तोषयन्तोऽग्रतः स्थिताः
ब्रह्मणस्तेन वाक्येन तुष्टाः सर्वे द्विजोत्तमाः
एके तत्राब्रुवन्विप्रा वेदान्वै वृणवामहै
अन्ये प्राहुः किमस्माकं धनैस्तुष्टे पितामहे
शांता आढ्याश्च लोकाश्च वरदानाद्भवंतु नः
परस्परं वरार्थेऽथ युद्धं कर्तुं समुद्यताः
केचिद्विप्रा उदासीनाः केचिद्वै मौनमास्थिताः 5.1.26.
तीर्थानां प्रवरं तीर्थं क्षेत्राणामपि चोत्तमम् 5.1.26.
एवं प्रजल्प्याथ मुनिप्रधानस्तत्रैव वासं सहसा चकार 5.1.26.
ययोर्दर्शनमात्रेण यमलोकं न पश्यति
न पश्येद्यमलोकं स यद्यपि ब्रह्महा भवेत्
अवतीर्णौ यदोर्वंशे दिव्यरूपौ महाद्युतौ
कंसं हत्वा सचाणूरमुग्रसेनं नराधिपम्
किं कार्यं ते मया ब्रूहि कर्तव्यं ते सुते हते
सर्वं संपत्स्यते कृष्ण भवतो हि न दुर्लभम्
गच्छेतमुज्जयिन्यां वै कृतविद्यौ भविष्यथ
कण्ठस्थांश्चक्रतुर्वेदानाचारमखिलं च तौ
अहोरात्रैश्चतुःषष्ट्या तदद्भुतमभूद्द्विज
विचिंत्य तौ तदा मेने प्राप्तौ चंद्र दिवाकरौ 5.1.27.