वेदानुद्दिश्य चाप्येवं प्रीयतां मे पितामहः
सर्वतीर्थेषु यत्पुण्यं मंदाकिन्यां तथा भवेत्
दानं कोटिगुणं ज्ञेयं मंदाकिन्यां न संशयः
घृतधेनुं च कार्तिक्यां माघ्यां तिलमयीं तथा
वाचिकं मानसं पापं कर्मजं यच्च दुष्कृ तम् ।। विनश्येत्किल्बिषं सर्वं मंदाकिन्यास्तु दर्शनात्
मंदाकिनीसमं तीर्थं पृथिव्यां नैव दृश्यते
मंदाकिन्यां तु यः स्नानं कृत्वा श्राद्धं प्रदास्यति
पितामहं तु यो भक्त्या नित्यं पश्यति मानवः 5.1.26.
युज्यते नात्र संदेहः सत्यमेतत्तपोधनाः
तेनैवोन्मत्तवेषेण ऊर्ध्वशेषो महेश्वरः
ते ब्राह्मणाः शपंति स्म निन्दां कुर्वंति चापरे
लोष्ठैर्लगुडकैश्चा न्ये घ्नंति तं बलगर्विताः
पृच्छंति व्रतचर्यां वै केन व्रतं च दर्शितम्
ब्रह्मणा चेदृशी चर्या विष्णुना वा कृता स्वयम्
मा विडम्बय देवेशं वध्यो हि नस्त्वमद्य वै
स्मितं कृत्वाऽब्रवीत्सर्वान्ब्राह्मणान्परमेश्वरः
यूयं कारुणिकाः सर्वे मैत्रभावे व्यवस्थिताः
मायया तस्य देवस्य मोहितास्ते द्विजातयः 5.1.26.
ताड्यमानस्तु तैर्विप्रैः परं कोपमुपागमत्
ऊर्ध्वजूटाः सलगुडाः परदारोपजीविनः
न पुत्रे पितृ वित्तं च विद्या वापि भविष्यति
रौद्रां भिक्षां तु भिक्षंतः परपिंडोपजीविनः
यैश्च तत्र कृता विप्रैर्हन्यमाने कृपा मयि
कुलोत्पन्नाश्च वै नार्यो भविष्यंति वरान्मम
ततो द्विजा गते देवे मत्वा तं शंकरं विभुम्
स्नात्वा सरसि रुद्रस्य जपतः शतरुद्रियम्
अनृतं न मया प्रोक्तं स्वैरेष्वेपि कुतः सुखम्
शांता दांताश्च ये विप्रा भक्तिमंतो मयि स्थिताः 5.1.26.
अग्निहोत्ररता ये च भक्तिमंतो जनार्दने
नाशुभं विद्यते तेषां येषां सख्ये स्थिता मतिः