देवीमुज्जयनीं भक्त्या यः पश्यति समाहितः
विशालां चैव यः पश्येद्रुद्रभक्त्या समाहितः
अकूरेश्वरमित्याख्यं यत्र सिद्धः पितामहः
तत्र देवार्चनं कृत्वा कृष्णाष्टम्यामुपोषितः
न वदेत्केनचित्सार्धं नरः प्रातर्गृहे स्थितः
मुच्यते पातकाद्धोराद्ब्रह्मलोकं मृतो व्रजेत्
पद्मासनस्थितो ब्रह्मा ध्यायमानः परं पदम्
पितरो ये च लोकानां पूज्यंते भुवि मानवैः ।। 5.1.26.
ग्रहार्कतारका यक्षा दिग्गजाश्च्यानलानिलाः
कथं ध्यायसि देवेश एतत्सर्वं ब्रवीहि नः
ते द्वे च मम रूपे द्वे नित्ये मूर्तात्मिके मम
येनास्माकं परा सिद्धिर्जायते तव दर्शनात्
यज्ञार्थिना मया देवः श्रीकंठः पार्वती पतिः
याचितस्तेन देवेन उक्तोऽहं परमेष्ठिना
मया दत्तं तव विभो महाकालवनादृते कपर्दिना च तत्रोक्तो यास्यामो न तवांतिकम्
आरब्धो वै ततो यज्ञो नारायणपरिग्रहात्
यज्ञवाटं कपर्दीशस्ततो भिक्षार्थमागतः
कपर्दिना च ते तत्र उक्ता यास्याम्यहं पुनः 5.1.26.
स्नातुं नदीं ययौ शिप्रां कपर्दी परमेश्वरः
कथं हि क्रियते होमः कपाले सदसि स्थिते
तत्कपालं सदस्येन उक्षिप्तं पाणिना स्वयम्
एवं नांतं कपालानां प्राप्यते मुनिसत्तमाः
ततः स दर्शनं प्रादाद्भक्त्या तुष्टो महेश्वरः
वरं वरय भो ब्रह्मन्यत्ते मनसि वर्तते
ब्रह्मोत्तरमिदं स्थानं मया दत्तं चतुर्मुख
एवं वदंतं वरदमीशानं परमेश्वरम् ।। तथेति चोक्त्वा सदसि न मयाऽन्यो वरो वृतः
उज्जयिनीति वै नाम कुशस्थल्या निवेशितम्
तत्र विप्राः कृते स्नाने सर्वपापैः प्रमुच्यते 5.1.26.
सतिलास्तान्सवस्त्रांश्च सफलान्मंडकैः सह
प्रथमं च ऋग्वेदाय यजुर्वेदाय दक्षिणम्