ब्राह्मणान्भोजयेत्पञ्च शिवभक्तिपरायणान्
पूजयित्वा हिरण्येन सूक्ष्मवस्त्रगुणैर्नवैः
दत्त्वा बिल्वेश्वरे चाश्वं वृषं दत्त्वा तु चोत्तरे
य एवं कुरुते व्यास तस्य पुण्यफलं शृणु
पितृकैर्मातृकैः सार्धं कुलैः स दिवि मोदते
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा
यस्तु पद्मावतीं पश्येद्दर्चयेत्पंकजैर्नरः
स्वर्णशृंगाटिकां व्यास कुसुमैः स्वर्णसंनिभैः 5.1.26.
अवन्तिनीं तु यः पश्येद्देवीं त्रैलोक्यविश्रुताम्
अर्चयेत्पंकजैर्भक्त्या यो देवीममरावतीम्
देवीमुज्जयनीं भक्त्या यः पश्यति समाहितः
विशालां चैव यः पश्येद्रुद्रभक्त्या समाहितः
अकूरेश्वरमित्याख्यं यत्र सिद्धः पितामहः
तत्र देवार्चनं कृत्वा कृष्णाष्टम्यामुपोषितः
न वदेत्केनचित्सार्धं नरः प्रातर्गृहे स्थितः
मुच्यते पातकाद्धोराद्ब्रह्मलोकं मृतो व्रजेत्
पद्मासनस्थितो ब्रह्मा ध्यायमानः परं पदम्
पितरो ये च लोकानां पूज्यंते भुवि मानवैः ।। 5.1.26.
ग्रहार्कतारका यक्षा दिग्गजाश्च्यानलानिलाः
कथं ध्यायसि देवेश एतत्सर्वं ब्रवीहि नः
ते द्वे च मम रूपे द्वे नित्ये मूर्तात्मिके मम
येनास्माकं परा सिद्धिर्जायते तव दर्शनात्
यज्ञार्थिना मया देवः श्रीकंठः पार्वती पतिः
याचितस्तेन देवेन उक्तोऽहं परमेष्ठिना
मया दत्तं तव विभो महाकालवनादृते कपर्दिना च तत्रोक्तो यास्यामो न तवांतिकम्
आरब्धो वै ततो यज्ञो नारायणपरिग्रहात्
यज्ञवाटं कपर्दीशस्ततो भिक्षार्थमागतः
कपर्दिना च ते तत्र उक्ता यास्याम्यहं पुनः 5.1.26.
स्नातुं नदीं ययौ शिप्रां कपर्दी परमेश्वरः
कथं हि क्रियते होमः कपाले सदसि स्थिते