गर्गेश्वरं स्नापयित्वा तिलतैलेन मानवः
उपोषितश्चतुर्दश्यां तिलप्रस्थतिलांभसा
गोसहस्रं नरो दत्त्वा भावं कृत्वा विशेषतः
कामेश्वरं समभ्यर्च्य कुंकुमादिविलेपनैः
चूडामणिं नमस्कृत्य नवम्यां कार्तिके सिते
चंडीश्वरं समभ्यर्च्य कृष्णाष्टम्यामुपोषितः
इत्यादितीर्थानि महेश्वरस्य पुण्यानि सर्वाणि नरोऽभिगम्य
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये शुक्रेश्वरभीमेश्वर गर्गेश्वरकामेश्वर चूडामणीश्वर चण्डीश्वरादितीर्थमाहात्म्यवर्णनं नाम पञ्चविंशोऽध्यायः
प्रमाणं कथयस्वाद्य महाकालवनस्य मे
तत्तेऽहं संप्रवक्ष्यामि शृणु त्वं गदतो मम
योजनस्यैव पर्यंतं चतुर्दिक्षूपशोभितम्
द्वाराणि तत्र शोभंते कांचनैः कलशैः स्थितैः
महेश्वरप्रयुक्ताश्च द्वाराध्यक्षा महाबलाः
पिंगलेशः स्थितः पूर्वे बालरूपो विभावसुः
दक्षिणेऽपि महायोगी कायावरोहणेश्वरः
नियुक्तो वै महेशेन वारुणीं दिशमास्थितः
साधकः सर्वकार्याणामादिष्टः शंकरेण सः
मृता रुद्रपुरं यांति विमानैः सार्वकामिकैः 5.1.26.
पंचेशानीं नमस्कृत्य प्रतिलोमानु लोमतः
मुच्यते सर्वपापैस्तु बहुजन्मकृतैरपि
अनेनैव स्वदेहेन रुद्रलोकं स गच्छति
तथा शृणु प्रवक्ष्यामि सर्वपापप्रणाशिनीम्
श्राद्धं कृत्वा महाकालं नत्वा चेशानमीश्वरम्
उपगम्य ततो देवं गणेशं पिंगलेश्वरम्
महाकालेश्वरं प्राप्य भूयः स्नातो जितेंद्रियः
ईशाने गमयेद्रात्रिं कृत्वा वै नक्तभोजनम्
द्वादश्यां पूर्ववत्सर्वं प्रातः स्नात्वा व्रजेन्नरः
त्रयोदश्यामथाप्येवं बिल्वेशं पश्चिमेऽर्चयेत् 5.1.26.
अमावास्यां शुचिः स्नातो महाकालेश्वरं यजेत्
गीतनृत्यादिकं कृत्वा प्रणिपत्य क्षमापयेत्