पौर्णमास्यां प्रभाते तु स्नात्वा निर्मलमानसः
दत्त्वान्नं च यथाशक्त्या संतोष्य ब्राह्मणांस्ततः
विभुं गुप्तहरिं दृष्ट्वा संपूज्य तु विशेषतः
स्वर्गद्वारे च विधिवन्मध्याह्ने स्नानमाचरेत् 2.8.6.
इति परमविधानैर्गोप्रतारे विधाय प्रथितसुकृतमूर्त्तिः स्नानमुच्चैः प्रयत्नात्
सीताकुण्डाच्च वायव्ये वर्त्तते गुणसुन्दरम्
पुरा दशरथो राजा पुत्रेष्टिनाम नामतः
क्रतुं समापयामास सानन्दो भूरिदक्षिणम्
हस्ते कृत्वा हेमपात्रं हविःपूर्णमनुत्तमम् चतुर्विधं विभज्यैव पत्नीभ्यो दत्तवान्नृपः
यत्र तत्क्षीरसंप्राप्तिर्जाता परमदुर्लभा उदकेनाभिव्यक्तं च उत्तमं च फलप्रदम्
तत्र स्नात्वा नरो धीमान्विजितेन्द्रिय आदरात्
आश्विने शुक्लपक्षस्य एकादश्यां जितव्रतः
विष्णुं संपूज्य विधिवत्सर्वान्कामानवाप्नुयात्
तस्मात्क्षीरोदकस्थानान्नैर्ऋते दिग्दले श्रितम्
सर्वपापप्रशमनं पुण्यामृततरंगितम् 2.8.7.
यज्ञं च विधिवच्चक्रे बृहस्पतिरुदारधीः सुपर्णच्छायसंपन्नं कुण्डं तत्पापिदुर्ल्लभम्
इन्द्रादयोऽपि विबुधा यत्र स्नात्वा प्रयत्नतः
यत्र स्नानेन दानेन नरो मुच्येत किल्बिषात्
भाद्रे शुक्ले तु पंचम्यां यात्रा तत्र फलप्रदा
बृहस्पतेस्तथा विष्णोः पूजां तत्र य आचरेत्
भवेद्बृहस्पतेः पीडा यस्य गोचरवेधतः
होमं कृत्वा गुरोर्मूर्तिः सुवर्णेन विनिर्मिता
वेदज्ञायातिशुचये स्नात्वा पीडापनुत्तये
एवं कृते न संदेहो ग्रहपीडा प्रणश्यति
तद्दक्षिणे मुनिश्रेष्ठ रुक्मिणीकुण्डमुत्तमम् 2.8.7.
तत्र विष्णुः स्वयं चक्रे निवासं सलिले तदा
तत्र स्नानं तथा दानं होमं वैष्णवमंत्रकम्
तत्र सांवत्सरी यात्रा कर्त्तव्या सुप्रयत्नतः
पुत्रवाञ्जायते वन्ध्यो यात्रां कृत्वा न संशयः
भुक्त्वा भोगान्समग्रांश्च विष्णुलोके स मोदते