तस्य तद्वचनं श्रुत्वा अत्रिर्वचनमब्रवीत् वयं तपस्विनो भूत्वा तीर्थयात्राकृतोद्यमाः
पोषयामि सदा तांस्तु एतन्मे हृदि संस्थितम्
यद्युष्मदर्थं क्रियते पापं तत्कस्य कथ्यताम्
यदि ते कथयंति स्म मा मृषा प्राणिनो वधीः
युष्माकं वचसा मेऽद्य प्रतिबोधः प्रवर्तते
गत्वा पृच्छामि तान्सर्वान्कस्य भावश्च कीदृशः
इत्युक्त्वा ताञ्जगामाशु पितरं स्वमुवाच ह
सुमहद्दृश्यते पापं कस्य तत्कथ्यतां मम
त्वं जानासि यत्कुरुषे कृतं भाव्यं पुनस्त्वया
तयाप्युक्तं न मे पापं पापमेतत्तवैव हि 5.1.24.
तज्ज्ञात्वा हृदयं तेषां चेष्टितं चैव तत्त्वतः
क्षिप्त्वाथ लगुडं कृष्णं येन वै जंतवो हताः
प्रणम्य दंडपातेन ततो वचनमव्रवीत्
सर्वैस्तैः परिमुक्तौऽहं भवतां शरणं गतः
एवं तं वादिनं दृष्ट्वा ऋषयोऽत्रिमथाब्रुवन्
भवताऽयमनुग्राह्यः शिष्यो भवतु ते मुने
अनेन ध्यानयोगेन महामंत्रजपेन च संस्थितो वृक्ष मूले त्वं परा सिद्धिं गमिष्यसि
इत्युक्त्वा ते ययुः सर्वे संकामं सोऽपि तत्र वै
तस्योपर्यभवत्तत्र वल्मीकोऽविचलस्य च
उदीरितं ध्वनिं तेन वल्मीके विस्मयान्विताः 5.1.24.
तं दृष्ट्वोत्थापयामासुर्मुनयो नयसंयुतम्
तान्प्राह प्रणतो भूत्वा तपसा दीप्ततेजसः
दीनोऽहमुद्धृतः सर्वैर्मग्नोऽहं पापकर्दमे
वल्मीकेऽस्मिन्स्थितः पुत्र यतस्त्वमेकचित्ततः
इत्युक्त्वा मुनयो जग्मुः स्वां दिशां तपसान्विताः कुशस्थल्यामथागम्य समाराध्य महेश्वरम्
तस्मात्कवित्वमासाद्य चक्रे काव्यं मनोरमम्
ततः प्रभृति देवेशो वाल्मीकेश्वरसंज्ञकः
इति ते कथितं लिंगं वाल्मीकेश्वरमुत्तमम्
प्रणिपत्य ततो भक्त्या रुद्रलोके महीयते
भीमेश्वरं नरो दृष्ट्वा भक्त्या संपूज्य यत्नतः