मौनी ध्यानपरो भूत्वा स कवित्वमवाप्नुयात्
यस्य दर्शनमात्रेण कवित्वमुपजायते
रूपयौवनसंपन्ना तस्य भार्याथ कौशिकी
तस्य पुत्रः समुत्पन्नो ह्यग्निशर्मेति नामतः
ततो बहुतिथे काले अनावृष्टिरजायत
ततोऽसौ सुमतिर्विप्रः सभार्यः स सुतस्तथा
आभीरैर्दस्युभिः सार्धं संगोऽभूदग्निशर्मणः
स्मृतिर्नष्टा गता वेदा गतं गोत्रं गता श्रुतिः
सप्तर्षयः पथा तेन सुव्रताः समुपस्थिताः
वस्त्राणीमानि मुच्यध्वं छत्रिकोपानहौ तथा 5.1.24.
तस्य तद्वचनं श्रुत्वा अत्रिर्वचनमब्रवीत् वयं तपस्विनो भूत्वा तीर्थयात्राकृतोद्यमाः
पोषयामि सदा तांस्तु एतन्मे हृदि संस्थितम्
यद्युष्मदर्थं क्रियते पापं तत्कस्य कथ्यताम्
यदि ते कथयंति स्म मा मृषा प्राणिनो वधीः
युष्माकं वचसा मेऽद्य प्रतिबोधः प्रवर्तते
गत्वा पृच्छामि तान्सर्वान्कस्य भावश्च कीदृशः
इत्युक्त्वा ताञ्जगामाशु पितरं स्वमुवाच ह
सुमहद्दृश्यते पापं कस्य तत्कथ्यतां मम
त्वं जानासि यत्कुरुषे कृतं भाव्यं पुनस्त्वया
तयाप्युक्तं न मे पापं पापमेतत्तवैव हि 5.1.24.
तज्ज्ञात्वा हृदयं तेषां चेष्टितं चैव तत्त्वतः
क्षिप्त्वाथ लगुडं कृष्णं येन वै जंतवो हताः
प्रणम्य दंडपातेन ततो वचनमव्रवीत्
सर्वैस्तैः परिमुक्तौऽहं भवतां शरणं गतः
एवं तं वादिनं दृष्ट्वा ऋषयोऽत्रिमथाब्रुवन्
भवताऽयमनुग्राह्यः शिष्यो भवतु ते मुने
अनेन ध्यानयोगेन महामंत्रजपेन च संस्थितो वृक्ष मूले त्वं परा सिद्धिं गमिष्यसि
इत्युक्त्वा ते ययुः सर्वे संकामं सोऽपि तत्र वै
तस्योपर्यभवत्तत्र वल्मीकोऽविचलस्य च
उदीरितं ध्वनिं तेन वल्मीके विस्मयान्विताः 5.1.24.