गुह्यं चैव महाकालं ततो गच्छेत्समाहितः
ततो गच्छेत्समाधिस्थो दुर्वासेश्वरमुत्तमम्
श्वासावरोधनं कृत्वा दुर्वाससः समीपतः
तत्रोच्छ्वासो विमोक्त्यस्तामभ्यर्च्य तु सर्वथा
यस्य दर्शनमात्रेण यमलोकं न पश्यति
यस्य दर्शनमात्रेण बधिरत्वं न जायते
न कीर्तयेद्यदा नाम सा यात्रा विफली भवेत्
भक्तियुक्तस्ततो ब्रूयान्नमस्कृत्वा पुनःपुनः
संसारसागराद्धोरान्मामुद्धर जगत्पते 5.1.23.
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा
तत्फलं देवदेवस्य सकृद्दत्त्वा प्रदक्षिणम्
पदेपदे यज्ञफलमिति मे शंकरोऽब्रवीत्
पूजितानि भवंत्यत्र यात्रेश्वरसमर्चनात्
सहस्रदक्षिणां दद्यात्तस्य पुण्यफलं शृणु
एवं यात्रां समाप्याथ गत्वा निजगृहं नरः
भोजयेच्छिवभक्तांश्च शिवध्यानपरायणान्
यात्राक्रमेण चैकैकं द्वारांतरमनुव्रजेत्
धेनुं पयस्विनीं दद्याद्वित्तशाठ्यविवर्जितः
दीनानाथदरिद्रांधविकलाद्यांश्च भोजयेत् 5.1.23.
कुलानां शतमुद्धृत्य मातापित्रोः समाहितः
मौनी ध्यानपरो भूत्वा स कवित्वमवाप्नुयात्
यस्य दर्शनमात्रेण कवित्वमुपजायते
रूपयौवनसंपन्ना तस्य भार्याथ कौशिकी
तस्य पुत्रः समुत्पन्नो ह्यग्निशर्मेति नामतः
ततो बहुतिथे काले अनावृष्टिरजायत
ततोऽसौ सुमतिर्विप्रः सभार्यः स सुतस्तथा
आभीरैर्दस्युभिः सार्धं संगोऽभूदग्निशर्मणः
स्मृतिर्नष्टा गता वेदा गतं गोत्रं गता श्रुतिः
सप्तर्षयः पथा तेन सुव्रताः समुपस्थिताः
वस्त्राणीमानि मुच्यध्वं छत्रिकोपानहौ तथा 5.1.24.