तत्सर्वं कोटिगुणितं जायते नात्र संशयः
मुच्यते सर्वपापेभ्यो निर्मोकेन यथोरगः
दृष्ट्वा देवं महाकालं गोसहस्रफलं लभेत् 5.1.22.
चांद्रायणसहस्रस्य फलं प्राप्नोति मानवः
गन्धपुष्पार्चनं कृत्वा महास्नपनपूर्वकम्
लभते सर्वकामित्वं यत्सुरैरपि दुर्लभम्
गंधपुष्पैश्च कालीनैस्तथा वस्त्रैः सुशोभनैः
समभागानि कृत्वा तु शिलापृष्ठे च पेषयेत्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये रुद्रसरोमाहात्म्यवर्णनंनाम द्वाविंशोऽध्यायः
शिवां श्रेयस्करीं पुण्यां पुण्यलोकप्रदायिनीम्
स्नात्वा सरसि रुद्रस्य दृष्ट्वा कोटेश्वरं शिवम्
गन्धैः पुष्पैर्नमस्कारैः संपूज्य त्रिदशेश्वरम्
तत्रैव देवदेवेशः कपालं न्यस्तवान्क्षितौ
कपालमोचनं नाम सर्वपापप्रणाशनम्
तदर्धार्धेन पादेन वित्तशाठ्यविवर्जितः
नमस्कृत्य ततो गच्छेत्कपिलेश्वरमुत्तमम्
हनुमत्केश्वरं देवं ततो गच्छेत्समाहितः
ततो गच्छेन्महादेवं पैप्पलाख्यं सनातनम्
स्वप्नेश्वरं ततो गच्छेद्भक्तिश्रद्धासमन्वितः 5.1.23.
ततो गच्छेन्महादेवमीशानं विश्वतोमुखम्
सोमेश्वरं ततो गच्छेज्जितक्रोधो जितेंद्रियः
वैश्वानरेश्वरं व्यास ततो गच्छेत्समाहितः
बीजपूरकहस्तं तु लकु लीशं ततो व्रजेत्
ततो गच्छेन्महादेवं गद्याणेश्वरमुत्तमम्
अभ्यर्थितः सदा देवैः पूजितः सिद्धिकारणात्
वयोवृद्धं ततो गच्छेन्महाकालं सनातनम्
विघ्ननाशं ततो गच्छेत्प्राणीशं बलमुत्तमम्
तस्य चैव कृते स्नाने लभ्यंते सर्वसिद्धयः
तनयं तमनूल्लंघ्य दंड पाणिं ततो व्रजेत् 5.1.23.
पुष्पदन्तं ततो गच्छेद्भक्तिश्रद्धासमन्वितः