विष्णुना रामरूपेण लंकायां विनिपातितः
घातयित्वा तु तं दुष्टं सीतामादाय जानकीम्
तत्र राज्यमनुप्राप्य ऋषिभिः परिवारितः
पप्रच्छ च द्वयोर्वीर्यं शंभुवातजयोस्तदा
अनौपम्यो यथा देवो युद्धे शौर्यं? महेश्वरः
एतच्छुत्वाथ हनुमान्यद्धरेणो पमा मम
गमिष्ये नगरीं लंकां लिंगमेकं प्रयाचितुम् 5.1.21.
ततो गतः स लंकायां विभीषणमुवाच ह
उक्तं च राक्षसेन्द्रेण गृहाणैतद्यथा रुचि
त्रैलोक्यविजयात्पूर्वं मम भ्रात्रा महात्मना तत्प्रयच्छामि तेऽद्यैव सत्यमेतत्प्लवंगम
ततो जग्राह हनुमाँल्लिंगं मौक्तिकसंनिभम्
श्रुत्वा हनुमतो वाक्यमथोवाच विभीषणः
श्रूयते हि पुरावृत्तं लिंगमेतद्धनेश्वरः
रावणेन यदा बद्धस्तदानीं हि धनेश्वरः
प्रसादात्तस्य लिंगस्य धनेशो धनरक्षकः
सप्तमे दिवसे चैव संप्राप्तोऽवंतिकां पुरीम्
तत्र रुद्रसरस्तीरे स्थाप्य स्नानमथाकरोत् 5.1.21.
उद्धर्तुकामस्तल्लिगमुद्धर्तुं न शशाक सः
ततो व्यवस्थितो देवः प्राह तं वायुनन्दनम्
हनुमत्केश्वरं चाथ लोके ख्यातं भविष्यति
शनौ पश्येन्नरो यस्तु हनुमत्केश्वरं शिवम्
न च चौरभयं तस्य न दारिद्र्यं न दुर्गतिः
तस्य रोगाः प्रलीयन्ते ग्रहपीडा न जायते
कुंकुमेन समालिप्य पूजयेदुत्पलैस्ततः
दहेत्कृष्णागरुं धूपं दापयेत्तिलतण्डुलान्
यत्र कुत्र मृतस्यापि यमः पितृसमो भवेत्
नाम्ना रुद्रसरः प्रोक्तं त्रिषु लोकेषु विश्रुतम्
तत्र स्नात्वा शुचिर्भूत्वा पश्येत्कोटेश्वरं शिवम्
श्राद्धं तत्रैव कृत्वा तु शृणु यत्फलमाप्नुयात्
फलं कोटिगुणं व्यास लभते नात्र संशयः