सोत्रैव लभते सिद्धिं जयं सर्वत्र मानवः
स्वर्णेन पूजयेद्देवं सर्वपापैः प्रमुच्यते
सर्पतो न भयं तस्य दारिद्यं नैव जायते
विष्णुमायाविनिर्मुक्तः स याति परमं पदम्
स मुच्येत महापापैर्यद्यपि ब्रह्महा भवेत्
दर्शनात्तस्य देवस्य शतयज्ञफलं भवेत्
इतिश्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये चतुर्दशतीर्थयात्रावर्णनंनाम विंशोऽध्यायः
हनुमत्केश्वरंनाम भुक्तिमुक्तिफलप्रदम्
शैवे सरसि यः स्नात्वा पश्येद्धनुमत्केश्वरम्
कथां कथय ह्येतस्य वृत्तपूर्वां सनातनीम्
विष्णुना रामरूपेण लंकायां विनिपातितः
घातयित्वा तु तं दुष्टं सीतामादाय जानकीम्
तत्र राज्यमनुप्राप्य ऋषिभिः परिवारितः
पप्रच्छ च द्वयोर्वीर्यं शंभुवातजयोस्तदा
अनौपम्यो यथा देवो युद्धे शौर्यं? महेश्वरः
एतच्छुत्वाथ हनुमान्यद्धरेणो पमा मम
गमिष्ये नगरीं लंकां लिंगमेकं प्रयाचितुम् 5.1.21.
ततो गतः स लंकायां विभीषणमुवाच ह
उक्तं च राक्षसेन्द्रेण गृहाणैतद्यथा रुचि
त्रैलोक्यविजयात्पूर्वं मम भ्रात्रा महात्मना तत्प्रयच्छामि तेऽद्यैव सत्यमेतत्प्लवंगम
ततो जग्राह हनुमाँल्लिंगं मौक्तिकसंनिभम्
श्रुत्वा हनुमतो वाक्यमथोवाच विभीषणः
श्रूयते हि पुरावृत्तं लिंगमेतद्धनेश्वरः
रावणेन यदा बद्धस्तदानीं हि धनेश्वरः
प्रसादात्तस्य लिंगस्य धनेशो धनरक्षकः
सप्तमे दिवसे चैव संप्राप्तोऽवंतिकां पुरीम्
तत्र रुद्रसरस्तीरे स्थाप्य स्नानमथाकरोत् 5.1.21.
उद्धर्तुकामस्तल्लिगमुद्धर्तुं न शशाक सः
ततो व्यवस्थितो देवः प्राह तं वायुनन्दनम्
हनुमत्केश्वरं चाथ लोके ख्यातं भविष्यति