यः पश्येत्परया भक्त्या हरसिद्धिं नरोत्तमः
आदिसिद्धिं महादेवीं नित्यां व्योमस्वरूपिणीम्
यः स्मरेद्धरसिद्धीति मंत्रं च चतुरक्षरम्
नरो महानवम्यां यो हरसिद्धिं प्रपूजयेत्
नवम्यां पूजिता देवी हरसिद्धिर्हरप्रिया
सा पुण्या सा पवित्रा च सर्वत्र सुखदायिनी
महानवम्यां ये व्यास हन्यंते महिषादयः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवत्यखंडेऽवन्तीक्षेत्रमाहात्म्ये हरसिद्धिमाहात्म्य वर्णनंनामैकोनविंशोऽध्यायः
पूजयेत्स्वर्णपुष्पैश्च तस्य सिद्धिर्न हीयते
इति वटयक्षिणीमाहात्म्यम् तिलान्ददाति यो भक्त्या न पिशाचः प्रजायते
यं समुद्दिश्य यद्दत्तं तदक्षयतरं भवेत्
यस्य नाम्ना नरः स्नाति पिशाचत्वात्स मुच्यते
तस्य वै शाश्वती मुक्तिः कुले प्रेतो न जायते
मुच्यते सर्वपापेभ्यः कंचुकेन फणी यथा
त्यक्त्वा यमगृहं व्यास रुद्रलोकं स गच्छति
सोऽश्वमेधफलं व्यास लभते नात्र संशयः
देवस्तेन समाख्यातो नाम्ना डमरुकेश्वरः
नैव व्याधिभयं तस्य मृतः शिवपुरं व्रजेत् 5.1.20.
राज्यं स लभते स्वर्गं यथा देवः पुरंदरः
कल्पकोटिशतं साग्रं भोगयुक्तस्तु मोदते
सोत्रैव लभते सिद्धिं जयं सर्वत्र मानवः
स्वर्णेन पूजयेद्देवं सर्वपापैः प्रमुच्यते
सर्पतो न भयं तस्य दारिद्यं नैव जायते
विष्णुमायाविनिर्मुक्तः स याति परमं पदम्
स मुच्येत महापापैर्यद्यपि ब्रह्महा भवेत्
दर्शनात्तस्य देवस्य शतयज्ञफलं भवेत्
इतिश्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये चतुर्दशतीर्थयात्रावर्णनंनाम विंशोऽध्यायः
हनुमत्केश्वरंनाम भुक्तिमुक्तिफलप्रदम्
शैवे सरसि यः स्नात्वा पश्येद्धनुमत्केश्वरम्
कथां कथय ह्येतस्य वृत्तपूर्वां सनातनीम्