समाप्तनियमा सा च यदा गौरी भविष्यति
ततस्तवापि सहजा सैकानंशा भविष्यति
एकानंशेति लोकस्त्वां वरदे पूजयिष्यति ।। भेदैर्बहुविधाकारैः सर्वगां कामसाधनीम्
ॐकारवक्त्रा गायत्री त्वमेव ब्रह्मवादिनी
विशां त्वं कमलादेवी शूद्राणां जननी स्वयम्
त्वं च कीर्तिमतां कीर्तिस्त्वं भूतिः सर्वदेहिनाम्
त्वं कांतिः कृतभूषा णां त्वं शांतिर्हृष्टकर्मणाम्
महावेला समुद्राणां विलासस्त्वं विलासिनाम् 5.1.18.
इत्यनेकविधैर्देवि रूपैर्लोकेषु चर्चिता कामा नाप्स्यंति ते सर्वे नियतं नात्र संशयः
इत्येवं सा समुत्पन्ना ब्रह्मणा संस्तुता सती
पार्वत्या हरणे यत्र सिद्धिः प्राप्ता हरेण च
बलिनौ दानवौ जातौ नाम्ना चण्डप्रचंडकौ
दृष्ट्वा तत्र गिरीशं तु उद्यताक्षाक्षहस्तकम्
देविदेवीति जल्पंतं दासस्तेऽस्मीति वादिनम्
रागीभूते तदा देवे तौ प्राप्तौ देवकंटकौ
ततस्ताभ्यां तदा नंदी शूलाभ्यां प्रविदारितः
नंदिनं ताडितं दृष्ट्वा तदा शिलादनंदनम्
वध्यतां तौ महादैत्यौ वधामीति वचोऽब्रवीत्
यदा तया हतौ दृष्टौ दानवौ बलगवितौ
हरसिद्धिरतो लोके नाम्ना ख्यातिं गमिष्यसि हरसिद्धिरिति ख्याता महाकाले बभूव ह ।। 5.1.19.
यः पश्येत्परया भक्त्या हरसिद्धिं नरोत्तमः
आदिसिद्धिं महादेवीं नित्यां व्योमस्वरूपिणीम्
यः स्मरेद्धरसिद्धीति मंत्रं च चतुरक्षरम्
नरो महानवम्यां यो हरसिद्धिं प्रपूजयेत्
नवम्यां पूजिता देवी हरसिद्धिर्हरप्रिया
सा पुण्या सा पवित्रा च सर्वत्र सुखदायिनी
महानवम्यां ये व्यास हन्यंते महिषादयः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवत्यखंडेऽवन्तीक्षेत्रमाहात्म्ये हरसिद्धिमाहात्म्य वर्णनंनामैकोनविंशोऽध्यायः
पूजयेत्स्वर्णपुष्पैश्च तस्य सिद्धिर्न हीयते
इति वटयक्षिणीमाहात्म्यम् तिलान्ददाति यो भक्त्या न पिशाचः प्रजायते