सुरामांसोपहारैश्च भक्ष्यभोज्यैश्च पूजिता
महानवम्यां यो देवीं महिषेण प्रपूजयेत्
तत्सर्वं श्रोतुमिच्छामि सर्वपापप्रणाशिनी
सनत्कुमार उवाच पुरा कृतयुगस्यादौ ब्रह्मा लोकपितामहः
ततो भगवती रात्रिरुपतस्थे पितामहम्
यत्कर्तव्यं त्वया देवि शृणु चार्थस्य निश्चयम्
तारकोनाम दैत्येंद्रः सुरशत्रुरनिर्जितः
तस्माद्भद्रे महेशो वै जनयिष्यति चेद्वरम् 5.1.18.
शंकरम्याभवत्पत्नी सती दक्षसुता तु या
भवित्री हिमशैलस्य दुहिता लोकपावनी
अतपद्धिमशैलस्य कंदरे सिद्धसेविते
तस्मात्सुतप्ततपसोर्भविता यो महाप्रभुः
जातमात्रा तु सा देवी स्वल्पसंज्ञैव भामिनी
तयोः सुतप्ततपसोः संयोगः स्यात्सुयुक्तयोः
भवेत्तत्र सुराणां च कार्यार्थे विप्रमाचर
गर्भस्थानेऽथ तां मातः स्वेन रूपेण रंजय
हासयिष्यति कालीति ततः सा कुपिता सती
जनयिष्यति यं शर्वादिंदुवज्ज्योतिमंड लम् 5.1.18.
त्वयापि दानवा देवि हंतव्या लोकदुर्जयाः
तत्संगमेन तावत्त्वं दैत्यान्हंतुं भविष्यसि
समाप्तनियमा सा च यदा गौरी भविष्यति
ततस्तवापि सहजा सैकानंशा भविष्यति
एकानंशेति लोकस्त्वां वरदे पूजयिष्यति ।। भेदैर्बहुविधाकारैः सर्वगां कामसाधनीम्
ॐकारवक्त्रा गायत्री त्वमेव ब्रह्मवादिनी
विशां त्वं कमलादेवी शूद्राणां जननी स्वयम्
त्वं च कीर्तिमतां कीर्तिस्त्वं भूतिः सर्वदेहिनाम्
त्वं कांतिः कृतभूषा णां त्वं शांतिर्हृष्टकर्मणाम्
महावेला समुद्राणां विलासस्त्वं विलासिनाम् 5.1.18.
इत्यनेकविधैर्देवि रूपैर्लोकेषु चर्चिता कामा नाप्स्यंति ते सर्वे नियतं नात्र संशयः
इत्येवं सा समुत्पन्ना ब्रह्मणा संस्तुता सती