प्रक्षिप्तं देवदेवेन कपालक्षालनं जलम्
अर्काष्टम्यां नरः स्नात्वा दिशासु विदिशासु च
हविष्यान्नयुतान्व्यास दद्याच्च करका न्नवान्
परत्र चेह ये लोकाः सर्वभावसमन्विताः
ये नरा कीर्तयिष्यंति माहात्म्यमतिभाविकाः
तुष्टाव प्रयतो भूत्वा देवदेवं दिवाकरम्
आजगाम दिवानाथः संतुष्टः प्राह शंकरम्
सूर्य उवाच वरं वरय भूतेश वरदोऽस्मि ददामि ते
अंशेन स्थीयतामत्र हितार्थं सर्वदेहिनाम् 5.1.15.
ततो देवाधिदेवस्य शंकरस्य महौजसः
शंकरादित्यनामेति लोकानुग्रहकारकः
अहो धन्यमिदं स्थानं यत्रास्ते त्रिपुरांतकः
ततस्तुष्टाश्च ते सर्वे ब्रह्माद्याः सुरसत्तमाः
मूर्तिमंतश्च ते देवा अवतीर्य च शोभनम्
न दुःखं जायते तेषां जरामरण शोकजम् तस्माच्चैवाधिकं ह्यत्र शंकरादित्यदर्शनात्
व्याधयो नाधयश्चैव दारिद्र्यं न कदाचन
न रोगो न च दारिद्र्यं वियोगो न च बन्धुभिः
इत्येवं देवदेवेन पुरा वै शूलपाणिना
स्थापितं परमं तीर्थं स्वनाम्ना मुनिसत्तम
एकदा समये व्यास कपालक्षालनाय वै
प्रक्षाल्य चाक्षिपद्भूमौ तत्र तीर्थमनुत्तमम्
ब्रह्मणो रुधिरेणाशु परि पूर्णाभवत्क्षणात्
श्राद्धं च तर्पणं कृत्वा तत्सर्वं चाक्षयं भवेत्
तिष्ठंति मुनिशार्दूल चिंतयंति स्वगोत्रजम्
संयावं पायसं वापि श्यामाकं सनिवारकम्
पितरौ द्वादशाब्दानि तृप्तिं यास्यंति तस्य वै
पितॄन्संतर्पयिष्यंति स्वर्गस्तेषां सदाऽक्षयः 5.1.16.
अक्षयं तस्य तत्प्रोक्तं ब्रह्मणा वै स्वयंभुवा
वाराणस्यां गयायां च सा न तृप्तिर्भविष्यति
यो यमुद्दिश्य वैकाममिह श्राद्धं करिष्यति