कुरुते तेषु यो यात्रां तस्य पुण्यफलं शृणु
कुर्याच्छाद्धं ततो व्यास पितॄणां भक्तितत्परः
मंडकांश्च ततो दद्याद्ब्राह्मणे वेदपारगे
सहिरण्यं च दातव्यं ब्राह्मणे वेदपारगे
सदक्षिणं फलैर्युक्तमर्घ्यं दद्यात्प्रयत्नतः
क्षीरं तत्र प्रदातव्यं ताम्रपात्रेण पूरितम्
इक्ष्वब्धौ च तथा कृत्वा दद्याद्विप्रे गुडं शुभम्
भव्यां हि लभते लक्ष्मीं पुत्रांश्चापि मनोरमान् ।। 5.1.14.
मृते स्वर्गमवाप्नोति यावदिंद्राश्चतुर्दश
क्रीडमानेन देवेन निर्मितं तीर्थमुत्तमम्
प्रक्षिप्तं देवदेवेन कपालक्षालनं जलम्
अर्काष्टम्यां नरः स्नात्वा दिशासु विदिशासु च
हविष्यान्नयुतान्व्यास दद्याच्च करका न्नवान्
परत्र चेह ये लोकाः सर्वभावसमन्विताः
ये नरा कीर्तयिष्यंति माहात्म्यमतिभाविकाः
तुष्टाव प्रयतो भूत्वा देवदेवं दिवाकरम्
आजगाम दिवानाथः संतुष्टः प्राह शंकरम्
सूर्य उवाच वरं वरय भूतेश वरदोऽस्मि ददामि ते
अंशेन स्थीयतामत्र हितार्थं सर्वदेहिनाम् 5.1.15.
ततो देवाधिदेवस्य शंकरस्य महौजसः
शंकरादित्यनामेति लोकानुग्रहकारकः
अहो धन्यमिदं स्थानं यत्रास्ते त्रिपुरांतकः
ततस्तुष्टाश्च ते सर्वे ब्रह्माद्याः सुरसत्तमाः
मूर्तिमंतश्च ते देवा अवतीर्य च शोभनम्
न दुःखं जायते तेषां जरामरण शोकजम् तस्माच्चैवाधिकं ह्यत्र शंकरादित्यदर्शनात्
व्याधयो नाधयश्चैव दारिद्र्यं न कदाचन
न रोगो न च दारिद्र्यं वियोगो न च बन्धुभिः
इत्येवं देवदेवेन पुरा वै शूलपाणिना
स्थापितं परमं तीर्थं स्वनाम्ना मुनिसत्तम
एकदा समये व्यास कपालक्षालनाय वै