मापेन मापितान्कृत्वा मसूरांस्तत्र कुट्टयेत्
ये पश्यंति नरा भक्त्या शीतलां दुरितापहाम्
न च रोगभयं तेषां ग्रहपीडा तथैव च
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये शीतला माहात्म्यवर्णनंनाम द्वादशोऽध्यायः
श्राद्धं तत्रैव कुर्वीत पितॄनुद्दिश्य भक्तितः
पितॄंश्च स नरो व्यास तारयेदात्मना सह
भैरवस्याग्रतो देवी पूर्वे तिष्ठति चांबिका
महानवम्यां पुरुषः कृत्वा बस्तमयं बलिम् भक्त्या निवेद्य देव्यै तु सर्वासिद्धिमवाप्नुयात्
तत्र स्नात्वा नरो भक्त्या पूजां कृत्वा महेश्वरे
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये स्वर्गद्वारमाहात्म्य वर्णनंनाम त्रयोदशोध्यायः
यस्य दर्शनमात्रेण पुत्रवाञ्जायते नरः
समुद्राः संति चत्वारः क्षारक्षीरदधीक्षवः
कथय त्वं मुनिश्रेष्ठ सुद्युम्नेन प्रतिष्ठिताः
लक्षयोजनपर्यंतं जंबुद्वीपं सुशोभनम्
शाकद्वीपे द्विलक्षे तु क्षीराब्धिः संप्रतिष्ठितः शाल्मले त्विक्षुजलधिर्ह्यष्टलक्षः प्रतिष्ठितः
चत्वारस्ते समाख्याताः समुद्रा भूमिमंडले
तस्य पत्नी वरारोहा नाम्ना ख्याता सुदर्शना
मुनिं दाल्भ्यं च सा दृष्ट्वा पप्रच्छ सुतकाम्यया
सर्वलक्षणसंपूर्णः पुत्रो लभ्यो मया कथम्
स्वयंभुवेन देवेन ब्रह्मणा लोककारिणा ।। 5.1.14.
तेषु राज्ञा कृते स्नाने तव पुत्रो भविष्यति
दाल्भ्यस्यैव तु वाक्येन विचित्राख्यानकेन च
स गत्वा तोषयामास शंकरं गंधमादने
अवंतीं गच्छ राजेद्र पुत्रं प्राप्स्यसि शोभनम्
मेरुरूपे स्थले राजन्समीपे शंकरस्य च अभ्यर्थितास्त्वया तत्र स्थास्यंति कलया सदा
एवमुक्त्वा महादेवो जगामादर्शनं विभुः
आगतस्तु कुशस्थल्यां समुद्रांश्च ददर्श ह
स वव्रे मनसा पुत्रं सर्वलक्षणसंयुतम् तावदत्रैव स्थातव्यं राजस्थलसमीपतः
भविष्यति च ते पुत्रः सर्वलक्षणसंयुतः
स्थले चात्र शुभे राजन्स्थास्यामः कलया सह