विद्याधरपदं त्यक्त्वा मम शापाच्च सांप्रतम्
अजानता मया नाथ अपराधः कृतोऽधुना
एवमुक्तः स शक्रो वै विद्याधरमुवाच ह
तस्याश्चोत्तरभागे तु विद्यते तीर्थमुत्तमम् 5.1.11.
भक्त्या तत्र कृते स्नाने विद्याधरपतिर्भवेत्
एवमुक्तः स शक्रेण आगतोऽवंतिमंडले
प्रभावात्तस्य तीर्थस्य पुनः प्राप्तं पदं स्वकम्
तत्र पुष्पाणि यो दद्याच्चंदनं च विलेपनम्
सनत्कुमार उवाच तत्र तीर्थं च विख्यातं सर्वकामप्रदायकम्
तस्मिंस्तीर्थे नरः स्नात्वा गोशतस्य फलं लभेत्
मापेन मापितान्कृत्वा मसूरांस्तत्र कुट्टयेत्
ये पश्यंति नरा भक्त्या शीतलां दुरितापहाम्
न च रोगभयं तेषां ग्रहपीडा तथैव च
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये शीतला माहात्म्यवर्णनंनाम द्वादशोऽध्यायः
श्राद्धं तत्रैव कुर्वीत पितॄनुद्दिश्य भक्तितः
पितॄंश्च स नरो व्यास तारयेदात्मना सह
भैरवस्याग्रतो देवी पूर्वे तिष्ठति चांबिका
महानवम्यां पुरुषः कृत्वा बस्तमयं बलिम् भक्त्या निवेद्य देव्यै तु सर्वासिद्धिमवाप्नुयात्
तत्र स्नात्वा नरो भक्त्या पूजां कृत्वा महेश्वरे
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये स्वर्गद्वारमाहात्म्य वर्णनंनाम त्रयोदशोध्यायः
यस्य दर्शनमात्रेण पुत्रवाञ्जायते नरः
समुद्राः संति चत्वारः क्षारक्षीरदधीक्षवः
कथय त्वं मुनिश्रेष्ठ सुद्युम्नेन प्रतिष्ठिताः
लक्षयोजनपर्यंतं जंबुद्वीपं सुशोभनम्
शाकद्वीपे द्विलक्षे तु क्षीराब्धिः संप्रतिष्ठितः शाल्मले त्विक्षुजलधिर्ह्यष्टलक्षः प्रतिष्ठितः
चत्वारस्ते समाख्याताः समुद्रा भूमिमंडले
तस्य पत्नी वरारोहा नाम्ना ख्याता सुदर्शना
मुनिं दाल्भ्यं च सा दृष्ट्वा पप्रच्छ सुतकाम्यया
सर्वलक्षणसंपूर्णः पुत्रो लभ्यो मया कथम्
स्वयंभुवेन देवेन ब्रह्मणा लोककारिणा ।। 5.1.14.