ततो देवगणा दृष्ट्वा तमायांतं महासुरम्
बिभिदुः शलसंघातैरसिभि र्मुसलैस्तथा
हते तस्मिन्महादेवो देवान्प्रोवाच वै तदा
एतस्मिन्नंतरे व्यास तत्कपालात्सुभैरवाः
अभ्यधावंस्तमुद्देशं महादेवं निवेद्य वै
कपालमातरस्तस्मात्ख्याताः क्षेत्रे महाबलाः
स्थापितस्य कपालस्य भित्त्वा समभवत्पुरा
तदद्यापि महद्दिव्यं सरस्तत्र प्रकाशते
पात्रस्थमुद्धुतं वापि शीतोष्णं क्वथितं जलम् 5.1.9.
प्रागाद्ब्रह्मापि तं देशं देवतानां शतैर्वृतः
अत्र त्यजंति ये प्राणान्रुद्र लोकं व्रजंति ते
रौद्रे सरसि ये स्नांति जलं वापि पिबंति ये
इति स्वर्गगता देवाः स्पृहां कुर्वंति नित्यशः
इदं शुभं दिव्यमधर्मनाशनं महाकपालं सुरदैत्यपूजितम्
तपोरतैः सिद्धगणैरभिष्टुतं यथा नभःस्थं दिननाथमंडलम्
स्वयंभूतं महेशस्य विख्यातं कुटुंबिकेश्वरम्
मुच्यते सर्वपापैस्तु सप्तजन्मकृतैरपि
सर्वाँल्लोकानतिक्रम्य शिवलोकं स गच्छति
तीरे तस्य प्रयच्छेत स प्राप्नोति परां गतिम्
एकेनैवोपवासेन अश्वमेधफलं लभेत्
पट्टबंधं महेशस्य स विपाप्मा दिवं व्रजेत्
कर्पूरं कुङ्कुमं चैव मृगनाभि सचन्दनम्
स्वरूपं चैव विप्रेन्द्र सभार्यं भोजयेद्द्विजम्
इति श्रीस्कांदे महापुराणएकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये कुटुम्बिकेश्वरमाहात्म्यवर्णनंनाम दशमोऽध्यायः
अथातः संप्रवक्ष्यामि तीर्थं विद्याधरस्य तु
प्रसादाद्ब्रूहि मे ब्रह्मञ्छ्रोतुमिच्छामि सांप्रतम्
ग्रथिता पारिजातस्य माला तेन मनोरमा
गृहीत्वा च स तां मालां गतो वासववेश्मनि
दत्ता तस्यै तदा तेन सा माला नृत्यमाश्रितः ।। सा मेनकास्तुताऽस्थाने मालया मोहिता भवत्
कोपाविष्टेन शक्रेण शप्तो विद्याधरस्तदा