अतस्तद्गोप्रताराख्यं तीर्थं विख्यातिमागतम्
जन्मान्तरशतैर्विप्र योगोऽयं यदि लभ्यते
गोप्रतारे न सन्देहो हरिर्भक्त्या सुनिष्ठितः
गोप्रतारे नरो विद्वान्योऽपि स्नाति सुनिश्चितः
कार्तिक्यां च विशेषेण स्नातव्यं विजितेन्द्रियैः स्नातुमायान्त्ययोध्यायां गोप्रतारे विशेषतः ।। 2.8.6.
गोप्रतारसमं तीर्थं न भूतं न भविष्यति
निष्पापः कलुषं त्यक्त्वा शुक्लांगः सितकंचुकः
यानि कानि च तीर्थानि भूमौ दिव्यानि सुव्रत
गोप्रतारे जपो होमः स्नानं दानं च शक्तितः
कार्तिके प्राप्य तद्यन्ति तीर्थानि सकलान्यपि
गोप्रतारे कृतं स्नानं सर्वपापप्रणाशनम् सर्वपापैः प्रमुच्येत नात्र कार्या विचारणा
विष्णुमुद्दिश्य विप्राणां पूजनं च विशेषतः
अन्नं बहुविधं हेम वासांसि विविधानि च
सूर्यग्रहे कुरुक्षेत्रे नर्मदायां शशिग्रहे 2.8.6.
घृतेन दीपको यस्य तिलतैले न वा पुनः
तेनेष्टं क्रतुभिः सर्वैः कृतं तीर्थावगाहनम्
नानाविधानि तीर्थानि भुक्तिमुक्तिप्रदानि च
स्वर्णमल्पं च यो दद्याद्ब्राह्मणे वेदपारगे
गोप्रताराभिधे तीर्थे त्रिलोकीविश्रुते द्विज
तत्र स्नानं तु यः कुर्याद्विप्रान्संतर्पयेन्नरः
एकाहारस्तु यस्तिष्ठेन्मासं तत्र यतव्रतः
अग्निप्रवेशं ये कुर्युर्गोप्रतारे विधानतः
कुर्वंत्यनशनं येऽत्र विष्णुभक्त्या सुनिश्चिताः
अर्चयेद्यस्तु गोविंदं गोप्रतारे हि मानवः 2.8.6.
अग्निहोत्रफलो धूपो गोविंदस्य समर्पितः
अत्यद्भुतमिदं विद्वन्स्थानमेतत्प्रकीर्तितम्
स्वर्गद्वारे नरः स्नात्वा दशस्वर्णफलं लभेत्
सुतीर्थे पर्वणि श्रेष्ठे दशस्वर्णफलप्रदे
उपोषितः शुचिः स्नातो विष्णुपूजनतत्परः
तावद्गर्जंति पुण्यानि स्वर्गे मर्त्ये रसातले