कपालखंडमादायं महादेवोऽप्यतिप्रभम् । ब्रह्मतेजो मयं दिव्यं ज्वलंतमिव चार्चिषा
क्रीडमानो जगन्नाथो मोहयामास वै सुरान्
प्राप्य पुण्यतमं क्षेत्रं यत्रातिष्ठन्महाप्रभुः
स्थापयामास दीप्तार्चिर्गणानामग्रतः प्रभुः
विनदत्समहानादं नादयंत दिशो दश
तेन शब्देन घोरेण दानवो देवकंटकः
अमृष्यमाणः क्रोधार्तो दुरात्मा दुर्जयः सुरैः
दैत्यैः परिवृतो घोरै कोटिभिश्चोद्यतायुधैः
समावेक्ष्याह वै देवो गणान्सर्वा न्पिनाकधृक् 5.1.9.
आयाति त्वरितो यूयं तस्मादेनं विनिघ्नथ
ततो देवगणा दृष्ट्वा तमायांतं महासुरम्
बिभिदुः शलसंघातैरसिभि र्मुसलैस्तथा
हते तस्मिन्महादेवो देवान्प्रोवाच वै तदा
एतस्मिन्नंतरे व्यास तत्कपालात्सुभैरवाः
अभ्यधावंस्तमुद्देशं महादेवं निवेद्य वै
कपालमातरस्तस्मात्ख्याताः क्षेत्रे महाबलाः
स्थापितस्य कपालस्य भित्त्वा समभवत्पुरा
तदद्यापि महद्दिव्यं सरस्तत्र प्रकाशते
पात्रस्थमुद्धुतं वापि शीतोष्णं क्वथितं जलम् 5.1.9.
प्रागाद्ब्रह्मापि तं देशं देवतानां शतैर्वृतः
अत्र त्यजंति ये प्राणान्रुद्र लोकं व्रजंति ते
रौद्रे सरसि ये स्नांति जलं वापि पिबंति ये
इति स्वर्गगता देवाः स्पृहां कुर्वंति नित्यशः
इदं शुभं दिव्यमधर्मनाशनं महाकपालं सुरदैत्यपूजितम्
तपोरतैः सिद्धगणैरभिष्टुतं यथा नभःस्थं दिननाथमंडलम्
स्वयंभूतं महेशस्य विख्यातं कुटुंबिकेश्वरम्
मुच्यते सर्वपापैस्तु सप्तजन्मकृतैरपि
सर्वाँल्लोकानतिक्रम्य शिवलोकं स गच्छति
तीरे तस्य प्रयच्छेत स प्राप्नोति परां गतिम्
एकेनैवोपवासेन अश्वमेधफलं लभेत्