नापि शेते न वा स्नाति हे राजन्निति जल्पति
रंभा च मेनका चैव प्रम्लोचा पुंजिकस्थली
सूर्यदत्ता विशालाक्षी चंद्रा चन्द्रप्रभा तथा
किं रोदिषि वरारोहे मर्त्यहेतोः सुलोचने
सौख्यं षण्ढो न जानाति संगात्स्त्रीपुंसयोर्हि यत्
श्रुत्वा चेति वचस्तस्यास्ताः संमंत्र्य समाहिताः
नृपं च ददृशुस्तत्र वृक्षच्छायानिषेवितम्
दृष्ट्वा तथाविधाः सर्वाः कामार्ता सुरयोषितः 5.1.8.
ऐलः पुरूरवा नाम विख्यातो जगतीपतिः
एवं ब्रुवन्त्यां वै तस्यामुर्वश्यामप्सरोगणः
एतस्मिन्नन्तरे प्रायाद्भगवांस्तत्र नारदः
संप्रेक्ष्य च ततः प्राह कि यूयमिह निस्वनाः
वरं च व्रियतां शीघ्रं वियोगो न भवि ष्यति
अस्मिन्हि दुर्भगा तीर्थे स्नात्वा स्त्री पुरुषोऽपि वा
आत्मानं तोलयेद्यस्तु तिलैर्वा लवणेन वा
गुडेन मधुना वापि देवीमुद्दिस्य पार्वतीम्
द्रव्यवृद्धिः शर्करया गुडेनांगेषु पूर्णता
द्वादशैव तु युग्मानि देव्या देवस्य भोजयेत् 5.1.8.
वेत्रजां कंचुकीं चैव वस्त्रे कौसुंभके तथा
आषाढे श्रावणे वापि मासि भाद्रपदे तथा
उत्तमा जायते नारी यथा देवी उमा तथा
धार्यौ नार्या हि तौ देवौ स्वयं तुलावरोहणे
तत्र दत्तं हुतं जप्तं सर्वं कोटिगुणं भवेत्
गन्धर्वाप्सरसां लोके मृता याति न संशयः
दृष्ट्वा ते परमां सिद्धिं प्राप्नुतो दंपती तदा संपूज्य गंधपुष्पैश्च रुद्रलोकमवाप्नुयात्
यथा देव्याः स्वरूपेण वियोगो नैव दृश्यते
एवं कृत्वाथ तां विप्र सर्वाश्च त्रिदिवं गताः
दक्षिणे पृष्ठदेव्या वै माहिषं कुण्डमुच्यते 5.1.8.
तत्र तीर्थे नरः स्नात्वा मातॄः संपूज्य यत्नतः
रुद्रस्यैव कथं क्षेत्रे महिषो दानवो हतः