इलस्यपुत्रो धर्मात्मा नाम्ना चैव पुरूरवाः
नृत्यन्तीं वासवस्याग्रे उर्वशीं वीक्ष्य कामुकः
धैर्यं चित्ते समावेश्य मुहूर्तं पर्यवस्थितः
तत्प्रदेशाद्विनिष्क्रम्य कामार्ता चातिविह्वला
अथात्मानं च संवेद्य उत्थिता भूमिमण्डलात्
गतः पुरूरवा भूमिं तामेव मनसा स्मरन्
चित्रांगदगृहे गत्वा दूतं साथ चकार ह
उर्वश्या रहितः स्वर्गः शून्योऽप्यासीद्दिवौकसाम् 5.1.8.
तया विरहितः सोऽपि शून्यचित्तः परिभ्रमन्
परिभ्रमन्स तीर्थानि महाकालवनं गतः
नापि शेते न वा स्नाति हे राजन्निति जल्पति
रंभा च मेनका चैव प्रम्लोचा पुंजिकस्थली
सूर्यदत्ता विशालाक्षी चंद्रा चन्द्रप्रभा तथा
किं रोदिषि वरारोहे मर्त्यहेतोः सुलोचने
सौख्यं षण्ढो न जानाति संगात्स्त्रीपुंसयोर्हि यत्
श्रुत्वा चेति वचस्तस्यास्ताः संमंत्र्य समाहिताः
नृपं च ददृशुस्तत्र वृक्षच्छायानिषेवितम्
दृष्ट्वा तथाविधाः सर्वाः कामार्ता सुरयोषितः 5.1.8.
ऐलः पुरूरवा नाम विख्यातो जगतीपतिः
एवं ब्रुवन्त्यां वै तस्यामुर्वश्यामप्सरोगणः
एतस्मिन्नन्तरे प्रायाद्भगवांस्तत्र नारदः
संप्रेक्ष्य च ततः प्राह कि यूयमिह निस्वनाः
वरं च व्रियतां शीघ्रं वियोगो न भवि ष्यति
अस्मिन्हि दुर्भगा तीर्थे स्नात्वा स्त्री पुरुषोऽपि वा
आत्मानं तोलयेद्यस्तु तिलैर्वा लवणेन वा
गुडेन मधुना वापि देवीमुद्दिस्य पार्वतीम्
द्रव्यवृद्धिः शर्करया गुडेनांगेषु पूर्णता
द्वादशैव तु युग्मानि देव्या देवस्य भोजयेत् 5.1.8.
वेत्रजां कंचुकीं चैव वस्त्रे कौसुंभके तथा
आषाढे श्रावणे वापि मासि भाद्रपदे तथा