भूमिदानं च यस्तत्र प्रदास्यति नरो मुने
गामेकां रक्ति कामेकां भूमेरप्येकमंगुलम्
धेनुमश्वांस्तिलान्वस्त्रं भाजनं ताम्रदोहनम्
ये प्रदास्यंति विप्रेभ्यस्तेषां लोकाः सदाऽक्षयाः
सा तत्र सर्वलोकानां देवी दुरितहारिणी
तस्मिन्स्नात्वा तु यः पश्येत्पृष्ठमातर आदरात्
तासां तु दर्शनं कृत्वा मार्गे गमनमाचरेत्
स्वदेशे परदेशे वा पर्वतेष्वटवीषु च
ग्रहपीडासु सर्वासु तथा राजभयादिकम् 5.1.8.
देवीमुद्दिश्य यो विप्र सोऽभीष्टफलमश्नुते
यः स्नाति पुरतो देव्याः स सिद्धि लभते पराम्
स्नाति वै फलकुम्भेन अग्रे देव्या विधानतः
तस्य संजायते पुत्रो यथा देवः षडाननः
रूपसौभाग्यसंपन्नस्तत्र स्नातो भवेन्नरः
भर्ता पुरूरवा लब्धं ऐलेयोंऽसौ महीपतिः
कारणेन यथा तेन यस्मिन्काले प्रतिष्ठितम्
कथं पुरूरवाश्चासौ भार्यास्तस्य वराप्सराः सर्वमेतद्यथावृत्तं वद कौतूहलं हि मे
बदरिकाश्रमस्थौ तौ तेनेन्द्रो भयमागतः 5.1.8.
आदिष्टा या मघवता विघ्नार्थं च समागताः
विघ्नार्थमिह आयातास्तदा देवौ जजल्पतुः
एवं संजल्प्य च नरो नारायणमुवाच ह
मंजर्या सहकारस्य स्त्रीमूरुभ्यां चकार ह
उत्थितां प्रमदां दृष्ट्वा ज्वलनाभां वरांगनाम्
शक्रस्तासां वचः श्रुत्वा गत्वा देवावुवाच ह
अहमर्थी स्त्रियाश्चास्याः प्रसादः क्रियतामिति
अस्मद्वचनसामर्थ्याद्गृहाणेमां त्वमुर्वशीम्
मंजर्या सहकारस्य तेनेयमुर्वशी स्मृता
गत्वा स्वर्गमथाहूय चित्रांगदमुवाच ह 5.1.8.
क्रियतामचिरादेषा यत्नमास्थाय शोभनम् वरं प्रवीणा सा जाता नृत्ये गीते च कोविदा
एवं सा न्यवसत्तत्र सुरसद्मनि सुन्दरी