तच्छ्रुत्वा विष्णुकथितं सर्वलोकेश्वरोऽब्रवीत्
स्वर्गद्वारेऽत्र वै तीर्थे राममेवानुचिन्तयन्
सर्वे संतानिकंनाम ब्रह्मलोकादनन्तरम्
यस्या विनिःसृता ये वै सुरासुरतनूद्भवाः
ऋषयो नागयक्षाश्च प्रयास्यन्ति स्वकारणम् 2.8.6.
तज्जलं सरयूं भेजे परिपूर्णं ततो जलम्
मानुषं देहमुत्सृज्य ते विमानान्यथारुहन्
देहत्यागं च ते तत्र कृत्वा दिव्यवपुर्द्धराः
प्राप्य चोत्तमदेहं वै देवलोकमुपागमन् तेऽपि प्रविविशुः सर्वे देहान्निक्षिप्य वै तदा
तदा स्वर्गं गताः सर्वे स्मृत्वा लोकगुरुं विभुम्
अतस्तद्गोप्रताराख्यं तीर्थं विख्यातिमागतम्
जन्मान्तरशतैर्विप्र योगोऽयं यदि लभ्यते
गोप्रतारे न सन्देहो हरिर्भक्त्या सुनिष्ठितः
गोप्रतारे नरो विद्वान्योऽपि स्नाति सुनिश्चितः
कार्तिक्यां च विशेषेण स्नातव्यं विजितेन्द्रियैः स्नातुमायान्त्ययोध्यायां गोप्रतारे विशेषतः ।। 2.8.6.
गोप्रतारसमं तीर्थं न भूतं न भविष्यति
निष्पापः कलुषं त्यक्त्वा शुक्लांगः सितकंचुकः
यानि कानि च तीर्थानि भूमौ दिव्यानि सुव्रत
गोप्रतारे जपो होमः स्नानं दानं च शक्तितः
कार्तिके प्राप्य तद्यन्ति तीर्थानि सकलान्यपि
गोप्रतारे कृतं स्नानं सर्वपापप्रणाशनम् सर्वपापैः प्रमुच्येत नात्र कार्या विचारणा
विष्णुमुद्दिश्य विप्राणां पूजनं च विशेषतः
अन्नं बहुविधं हेम वासांसि विविधानि च
सूर्यग्रहे कुरुक्षेत्रे नर्मदायां शशिग्रहे 2.8.6.
घृतेन दीपको यस्य तिलतैले न वा पुनः
तेनेष्टं क्रतुभिः सर्वैः कृतं तीर्थावगाहनम्
नानाविधानि तीर्थानि भुक्तिमुक्तिप्रदानि च
स्वर्णमल्पं च यो दद्याद्ब्राह्मणे वेदपारगे
गोप्रताराभिधे तीर्थे त्रिलोकीविश्रुते द्विज
तत्र स्नानं तु यः कुर्याद्विप्रान्संतर्पयेन्नरः