रुद्रभक्तो विमानेन याति कामप्रचारिणा
गीतवादित्रशब्देन संवृतोऽप्सरसां गणै
रुद्रलोकाच्च्युतश्चापि विष्णुलोके महीयते
तस्मादपि च्युतः स्थानाद्द्वीपेषु स हि जायते
भुक्तैश्वर्यो नरस्तेषु मर्त्यामर्त्येषु जायते सुरूपः सुभगः कांतः कीर्तिमान्रुद्रभावितः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वा क्षेत्रवासिनः
सर्वात्मना रुद्रभक्ता भूतानुग्रहकारिणः
मृतास्ते रुद्रभवने विमानैर्यांति शोभनैः
अथवा संविदग्नौ च शरीरं विजुहोति यः 5.1.7.
रुद्रलोकोऽक्षयस्तेषां शाश्वतो गुह्यकैः सह
ये त्यजंति महाकाले प्राणान नशनैर्नराः
सांख्याः स्तुवंति ते रुद्रं सर्वदुःखविवर्जिताः अनाशकमृताः शूद्रा महाकालवने नराः
सिंहयुक्तैस्तु ते यांति विमानैरर्कसन्निभैः
नानावर्णसुवर्णाढ्यैर्हृष्टगंधाधिवा सितैः । अनौपम्यगुणै रम्यैरप्सरोगीतवादिभिः
पताकाध्वजविन्यस्तैर्नानाघंटानिनादितैः
रुद्रलोके नरा धीराः सर्वे चानशनैर्मृताः धनी विप्रकुले भोगी जायते मर्त्यमागतः
करीषं साधयेद्यस्तु महाकालवने नरः
रुद्रलोके वसेत्तावद्यावत्कल्पक्षयो भवेत्
तत्र भुक्त्वा महाभोगानिह जातो महीपतिः 5.1.7.
स्वधर्मनिरताश्चैव जितक्रोधा जितेंद्रियाः
रुद्रलोकं व्रजंतीह नात्र चित्रा मतिर्मम
विनापि क्षेत्रवासेन तथैव नियमेन च
मूका जडांधबधि रास्तपोनियमवर्जिताः
कालेनैव मृता व्यास रुद्रलोकं व्रजंति ते
शरीरैर्दिव्यरूपैश्च सर्वभोगसमन्विताः
निर्भत्सिता पुरा देवी कालीति पार्वतीति च
एवं हि कलहो जातः शिवगौर्योर्हि यत्र तु
कृतमग्रे तदा कुंडं नाम्ना कलहनाशनम्
तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा महेश्वरम् 5.1.8.
तत्र यच्छति यो दानं त्रुटिमात्रं च चंदनम्